पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/५५७

एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम् ॥१३॥ ]
५२५
कल्याणपीयूषव्याख्यासमेता

भिधानं नाम यस्यास्सा प्रपंचरचना प्रपंचस्य नदीनगरार्णवादेः रचना कर्पना भवति । इत्यादिका आख्यायिकारूपेण चिरकालप्रवर्तिता इयं जगतः स्थितिः बालजनोदिता अज्ञानिजनविनोदाय कथिता आख्यायिकेव कथेव प्रतिष्ठां गता हि ॥ २१ ॥

 बालजनायोदितामाख्यायिकामाचष्टे, बालस्येति ।


बालस्य विनोदाय धात्री वक्ति शुभां कथाम् ।।
क्वचित्सन्ति महाबाहो राजपुत्रास्त्रयः शुभाः ॥ २२ ॥
द्वौ न जातौ तथैकस्तु गर्भ एव न च स्थितः ।
वसंति ते धर्मयुक्ता अत्यन्तासति पत्तने ॥ २३ ॥
स्वकीयाच्छून्यनगरान्निर्गत्य विमलाशयाः ।
गच्छन्तो गगने वृक्षान् ददृशुः फलशालिनः ॥ २४ ॥
भविष्यन्नगरे तत्र! राजपुत्रास्त्रयोऽपि ते ।
सुखमद्य स्थिताः पुत्र मृगयाव्यवहारिणः ।। २५॥
धात्र्येति कथिता राम ! बालकाख्यायिका शुभा ।
निश्चयं स ययौ बालो निर्विचारणया धिया ॥ २६ ॥

 धात्री उपमाता । महाबाहो ! इति लालनपूर्वकं संबोधनं । विमलाशया निर्मलमनसः । फलशालिनः फलैर्विराजमानान् । मृगया मृगं यात्यनयेति मृगया आखेटकं । निर्विचारणधिया आख्यायिकायाः सत्यत्वविषये अविशंकस्सन् । सुगममन्यत्सर्वं ।

 आख्यायिकार्थं प्रकृते योजयति, इयमिति ।

इयं संसाररचना विचारोज्झितचेतसाम् ।
बालकाख्यायिकेवेत्थमवस्थितिमुपागता ॥ २७ ॥