इयं संसाररचना विचारोज्झितचेतसां विचारेण उज्झितं विहीनं चेतः येषां तेषां विचारविरहितमनस्कानां बालकाख्यायिकेव यथा बालकाख्यायिका निर्विचारणधियो बालस्य निश्चितत्वं गता तथा वास्तवरूषामवस्थितिं गता ॥२७॥
शक्तेः स्वरूपनिरूपणम् ।
वासिष्ठवचनमुपसंहरन् दशमे श्लोके उपक्रान्तं मायाशक्तिस्वरूपं निरूप यति, इतीति ।
इत्यादिभिरुपाख्यानैर्मायाशक्तेश्च विस्तरम् ।। |
या मायाशक्तिर्वसिष्ठेन प्रपंचिता सैव अथो निरूप्यते ।। २८ ॥
मायाशक्तिः स्वकार्याश्रयाभ्यां विलक्षणेत्याह, कार्येति ।
कार्याश्रयतश्चैषा भवेच्छक्तिर्विलक्षणा । |
एषा मायाशक्तिः स्वस्य कार्यात् जगतः स्वस्य आश्रयतो ब्रह्मणो विलक्षणा भवति । तत्र दृष्टान्तमाह, स्फोटेति । स्फोटांगारौ दाहकशक्ते: कार्यभूतः स्फोट: तस्या आश्रयो अंगारः, एतौ स्फोटांगारौ प्रत्यक्षतो दृश्यमानौ; शक्तिस्तु अंगारे विद्यमाना स्फोटजनिका शक्तिस्तु प्रत्यक्षतो अंगारे स्फोटे वा न दृश्यते । कि तु कार्यलिंगेनानुमीयते। अतो दाहकत्वशक्तिः स्वकार्याश्रयाभ्यां विलक्षणेति भावः२९
तथैव मृदादीनां शक्तिरपि तत्कार्याश्रयाभ्यां विलक्षणेत्याह, पृथ्विति ।
पृथुबुध्नोदराकारो घटः कार्योऽत्र मृत्तिका । |
पृथुबुध्नोदराकारः स्थूलवर्तुलोदराकारो घटः कार्यः। तत्कारणभूता मृत्तिका शब्दादिभिः पंचगुणैर्युक्ता। तेषामाश्रय इत्यर्थः । “अस्ति भूस्तत्वशून्येत्य"त्र (२-९४) पृथिव्याः पंचगुणात्मकत्वमुक्तं । शक्तिस्तु घटोत्पादनसमर्था मृदाश्रया शक्तिस्तु अतद्विधा उभयसदृशी न। न घटसदृशी पूर्वोक्ताकारशून्य-