पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/५५९

एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम् ॥१३॥ ]
५२७
कल्याणपीयूषव्याख्यासमेता

त्वात् । नापि मृत्सदृशी शब्दादिशून्यत्वात् । अत उभयविलक्षणेति भावः ॥ ३०॥

 उक्तं वैलक्षण्यं विवृणोति, नेति ।

न पृथ्वादिर्न शब्दादिः शक्तावस्तु यथा तथा ।
अत एव ह्यचिंत्यैषा न निर्वचनमर्हति ॥ ३१ ॥

 घटोत्यादिकायां शक्तौ स्वकार्यभूतस्य घटस्य धर्मः पृथ्वादिर्न दृश्यते । स्वाश्रयभूतायाः मृदो धर्मः शब्दादिर्न दृश्यते । तर्हि कीदृशोयं शक्तिरित्यत आह अस्त्विति । सा शक्तिर्यथा दृश्यते तथैवास्तु । उक्तमर्थं विशदयति, अत इति । अत एव स्वकार्याश्रयाभ्यां विलक्षणत्वात् एषा शक्तिरचिन्त्या। तर्हि किंरूपेयं शक्तिरित्यत आह, नेति । येन केनापि वरूपेण निर्वचनं नार्हति । “न शून्यं नापि सद्यादृक्तादृक्तत्वमिहेष्यता"मिति (२-४९) पूर्वमुक्तम् ॥ ३१ ॥

 ननु स्वकार्यविलक्षणा मृदादेः काचिच्छक्तिर्विद्यते चेत् कुतो नावभासत इत्याशंक्याह, कार्येति ।

कायोंत्पत्तेः पुरा शक्तिर्निगूढा मृद्यवस्थिता ।
कुलालादिसहायेन विकाराकारतां व्रजेत् ॥ ३२ ॥

 स्पष्टोऽर्थः । स्वस्वरूपेण शक्तेर्भानं तु न कदापि लभ्यते । सत्यां कारण सामग्रयां कायरूपेणाभिव्यज्यते । मृद्यवस्थिता शक्तिः कुलालादिसहायेन घटरूपे णेवेति भावः ।। ३२॥

शक्तिकार्यस्वरूपनिरूपणम् ।

 एवं कारणातिरिक्तस्य शक्तिकार्यस्याभ्युपगमे सिद्धः कार्यकारणयोर्भेदः कुतो न भासत इत्याशंक्याह, पृथ्विति ।

पृथुत्रादिविकारान्तं स्पर्शादिं चापि मृत्तिकाम् ।
एकीकृत्य घटं प्राहुर्विचारविकला जनाः ॥ ३३ ॥

 स्पष्टोऽर्थः । विचाराभावरूपप्रतिबन्धवशात्तत्र विद्यमानोऽपि भेदो न प्रतीयत इयर्थः ॥ । ३३ ॥