अनन्तरं निदिध्यासस्वरूपमाह, ताभ्यामिति ।
ताभ्यां निर्विचिकित्मेऽर्थे चेतसःस्थापितस्य यत् । |
ताभ्यां श्रवणमननाभ्यां निर्विचिकित्सेऽर्थे निर्गता विचिकित्सा शङ्का यस्मात्स असन्दिग्धो योऽर्थस्तस्मिन् स्थांपितस्य स्थिरीकृतस्य चतसः। एकतानत्वमे- काकारवृत्तिप्रवाहवत्वमेतन्निदिध्यासनमुच्यते । हेति प्रसिद्धार्धे । प्रसिद्धिश्च ; 'प्रत्ययैकतानता ध्यान'मिति योगशास्त्रे द्रष्टव्या ॥ ५४ ॥
समाधितत्फलनिरूपणम् ।
अत्र ध्यातृध्यानध्येयञ्चेति त्रितयं प्रतीयते । ‘यत्र हि द्वैतमिव भवति । तदितर इतरं पश्यती'ति श्रुतेः (बृ. ४. ५. १५.) तत्सर्वं द्वैतमेव । नैतच्च तत्त्वमस्यादिमहावाक्योपदिष्टमात्मैक्यानुसन्धानमिति मनसि कृत्वा इदानीं तत्साधनीभूतस्समाधिरुच्यत इत्याह, ध्यात्विति ॥
ध्यातृध्याने परित्यज्य क्रमाद्ध्येयैकगोचरम् । |
ध्यातृधाने अहं ध्याता इदं ध्यानमित्याकारकं ज्ञानद्वयं क्रमादभ्यासवशात् क्रमशः परित्यज्य चित्तं निवातदीपवत् यथा वायुरहिते प्रदेशे दीपो निश्चलस्तथा ध्येयैकगोचरं ध्येयमेकमेव गोचरो विषयी यस्य तत्तथाविधं यदा भवति तदा समाधिरित्यभिधीयते । यदा अभ्यासवशाद्धयातृव्याने अनवगाह्य ध्येयब्रह्मैकगोचरं चित्तं निवातदीपवन्निश्चलं भवति तदा समाधिरित्युच्यते ॥ ५५ ॥
समाधावष्यन्तःकरणसद्भावं दर्शयति, वृत्तय इति ॥
वृत्तयस्तु तदानीमज्ञाता अप्यात्मगोचराः । |
आत्मगोचराः आत्मविषयका अन्तःकरणस्य वृत्तयस्तदानीं समाधिसमये अज्ञाता: । तथापि व्युत्थितस्य समाधेरुत्थितस्य समुत्थितादुत्पन्नात्स्मरणादेवेतावन्तं