तदेतदाह, अत इति ।
अतोऽनिर्वचनीयोऽयं शक्तिवत्तेन शक्तिजः। |
अतोऽयं घटः शक्तिवदनिर्वचनीयः। स्वकारणान्मृदो भिन्नोऽभिन्नो वेति वक्तुमशक्यः । तेन उभयोस्साम्येन शक्तिजो मृन्निष्ठशक्तेरुत्पादितः। एवं चावास्त विकशक्तिकार्यत्वमस्य नानुपपन्नमिति भावः । ननु शक्तितत्कार्ययोरुभयोरप्यनिर्वचनीयत्वे तयोर्व्यवहारभेदनियामकं किमित्यत आह अव्यक्तत्व इति । अव्यक्तत्वे निगूढदशायां शक्तिरित्युक्ता शक्तिरिति व्यवहारः । कार्यरूपेण व्यक्तित्वे घटनामभृत् घट इति नाम्ना व्यवहारास्पदो भवति । द्वितीयप्रकरणे विषयोऽयं प्रसक्तानुप्रसक्त्या विचारितः । अत्र तु प्रकरणविषयानुसारतो विपुलतरं विचारित इति बोध्यम् ॥ ३६ ॥
एवं मायायाः व्यक्ताव्यक्तत्वे लौकिकमायादृष्टान्तेन द्रढयति, ऐन्द्रेति ।
ऐन्द्रजालिकनिष्ठाऽपि माया न व्यज्यते पुरा । |
स्पष्टोऽर्थः ॥ ३७ ॥
वाचारंभणश्रुतेरर्थविचारः।
एवं शक्तितत्कार्ययोरवास्तवत्वं शक्त्याश्रयस्य मृदादेर्वास्तवत्वं च श्रौतवाक्येन द्रढयति, एवमिति ।
एवं मायामयत्वेन विकारस्यानृतात्मताम् । |
स्पष्टोऽर्थः ॥ ३८ ॥
तां श्रुतिमर्थतः पठति, वागिति ।
वाङ्निष्पाद्यं नाममात्रं विकारो नास्य सत्यता । |