|
वाङ्निष्पाद्यं वाचा निष्याद्यं संपादितव्यं उच्चार्य नाममात्रं विकारः। अस्य विकारस्य सत्यता न । परमार्थता नास्ति । किं तु स्पर्शादिगुणयुक्ता केवल- मृत्तिका नामादिविकारविधुरा मृत्तिका सत्या वास्तवी । सर्व कार्यजातमवास्तवं; विकारस्वरूपत्वात् । कारणं तु वास्तवं; निर्विकारस्वरूपत्वादिति भावः । श्रुतिस्तु "वाचारंभणं विकारो नामधेयं मृत्तिकेत्येव सस्यम्” इति (छां,६,१.५.)॥३९॥
शक्तितत्कार्ययोरवास्तवत्वे तदाश्रयस्य वास्तवत्वे च कारणमाह, व्यक्तेति
व्यक्ताव्यक्ते तदाधार इति त्रिष्वाद्ययोर्द्वयो:। |
व्यक्ताव्यक्ते व्यक्तं स्पष्टतया भासमानं घटादिकार्यजातं अव्यक्तं अनभिव्यक्तस्वरूपा शक्तिः कारणं तदाधारः आश्रयो मृदादि; इति त्रिषु त्रयाणां मध्ये आद्ययोर्द्वयोः शक्तितत्कार्ययोरभिव्यक्तेः प्राक् पश्चादिति कालभेदेन पर्यायः क्रमेण स्थितिः । तृतीयः मृत्तिका तु शक्तितत्कार्ये अनुगच्छति, अनभिव्यक्तावस्थायां शक्तिरित्युच्यते; अभिव्यक्तावस्थायां कार्यमित्युच्यते । उभयोरेकस्मिन् समये अनवस्थानात् शक्तितत्कार्ये अन्योन्यं व्यावर्तते । अतस्तयोर्मिथ्यात्वं । मृत्तिका तु समयद्वयेऽप्यनुवर्तते । अतस्तस्याः सत्यत्वमिति भावः ॥ ४० ॥
श्रुतिप्रतिपादितं वचारंभणत्वं विवृणोति, निस्तत्वेति ।
निस्तत्वं भासमानं च व्यक्तमुत्पत्तिनाशभाक् । |
व्यक्तमभिव्यक्तं घटादिकार्यजातं निस्तत्वं याथार्थरहितं । तथापि भासमानं च आपातदृष्टेः प्रतीयमानं च। उत्पत्तिनाशभाक् उपतिं विनाशं च भजति । तदुत्पत्तौ नृभिः वाचा तस्य नाम निष्पाद्यते कल्प्यते । केनचिन्नाम्ना व्यवहार एवोपत्तिरित्यर्थः ॥ ४१ ॥