पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/५६३

एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम् ॥१३॥
५३१
कल्याणपीयूषव्याख्यासमेता

 उत्पत्तिविनाशयोरनन्तरमपि तन्नाम्ना व्यवह्रियमाणत्वात् तच्छब्दात्मको भवतीत्याहव्यक्त इति ।

व्यक्ते नष्टेऽपि नामैतन्नृवक्त्रेष्वनुवर्तते ।
तेन नाम्ना निरूप्यत्वाद्युक्तं तद्रूपमुच्यते ॥ ४२ ॥

 व्यक्ते घटादिकार्थरूपे नष्टेऽपि कार्यतादाल्यापन्नमेतन्नाम नृवक्त्रेषु व्यव हारे भाषारूपेणानुवर्तते । व्यक्ति घटादिकार्यं तेन नाम्ना निरूप्यत्वात् व्यवह्रिय- माणत्वात् तदूपं तस्य नाम्नः रूपमेव रूपं यस्य तत् तथोच्यते । अयथार्थस्य घटादिकार्थस्य नाशानन्तरमपि तन्नामैव व्यवह्रियमाणत्वात् घटादिकार्यं घटादि शब्दस्वरूपमात्रं भवितुमर्हतीति भावः ॥४२॥

 एवं घटादिकार्यस्यासत्यत्वनिश्चायिकामनुमानरचनां प्रदर्शयति, निस्त त्वमिति ।

निस्तत्वत्वाद्विनाशित्वाद्वाचारंभणनामतः।
व्यक्तस्य न तु तदूपं सस्यं किंचिन्मृदादिवत् ॥ ७३॥

 व्यक्तस्य घटादिरूपकार्यस्य तद्रुपं प्रतीयमानं पृथुबुध्नोदराविरूपं किंचिदपि न सत्यम् । तत्र पूर्वोक्तं कारणत्रयं संक्षेपेणाह । निस्तत्वत्वादिति । निस्तत्व त्वात् अवास्तवस्वरूपत्वात्, विनाशित्वात् नश्वरस्वभावत्वात्, वाचारंभणनामतः वचोभिर्निष्पाद्यमननामरूपत्वात् । त्रिष्वपि व्यतिरेकेण दृष्टान्तमाह, मृद्वदिति । घटादिकार्यमसत्यं निस्तत्वत्वात् , यदसत्यं न भवति न तन्निस्तत्त्वं भवति यथा मूत् । तथैवान्यत्रापि मेध्यम् ॥ ४३ ॥

कारणस्य सत्यत्वविचारः ।

 व्यतिरेकदृष्टान्तभूतस्य मृद्रूपोपादानस्य सत्यत्वमुपपादयति, व्यक्तेति ।

व्यक्तकाले ततः पूर्वमूर्ध्मप्येकरूपभाक् ।
सतत्त्वमविनाशं च सत्यं मृद्वस्तु कथ्यते ॥ ४४ ॥

 मृद्वस्तु व्यक्तकाले घयदिकर्यवशायां ततः पूर्व कार्योत्पतेः पूर्वे ऊर्ध्वं