पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/५६४

एतत् पृष्ठम् परिष्कृतम् अस्ति
५३२
[ब्रह्मनंदे अद्वैतानंद
पञ्चदशी

कार्यविनाशानन्तरं च एकरूपभाक् भवति । सतत्त्वं तत्त्वेन वास्तवेन सहितं अविनाशं च कार्यं नष्टेऽपि स्वयं विनाशरहितं यन्मृद्वस्तु तत्सत्यमिति कथ्यते । मृद्भस्तु सत्यं एकाकारस्वात् सतत्वत्वात् अविनाशित्वात् आरमवदित्यनुमानाकारो ऽवगम्यते ॥४४ ॥

 नन्वेवं सत्यभूताधिष्ठानज्ञाने सव्यधिष्ठानशुक्त्यादिज्ञाने आरोपितरज तादेरिव आरोपितघटादेरपि निवृत्तिः स्यात् । सा च न दृश्यते । अतः कथं तस्यानृतत्वमिति शंकते, व्यक्तमिति ।

व्यक्तं घटो विकारश्चेत्येतैर्नामभिरीरितः ।
अर्थश्चेदनृतः कस्मान्न मृद्वोधे निवर्तते ॥ ४५ ॥

 व्यक्तं घटः विकारः इत्येतैर्नामभिरीरितोऽर्थः अनृतश्चेत् मृद्वोधे सति कारणभूतांयाः सत्यायाः मृदो बोधे जाते सति । कस्मात् घटो न निवर्तते ? कारणभिन्नत्या कार्यस्याविद्यमानत्वस्यांगीकारे कारणज्ञानेन कार्यनिवृत्तिवश्यं स्यात् । यथा शुक्तिज्ञानेन रजतनिवृचिः । तथैव मृत्तिकायाः ज्ञाने आरोपितघटनिवृति; स्यात् । किं तु मृत्तिकायाः ज्ञानानन्तरमपि घटेऽनिवृत्त एव, प्रतीयमानत्वात्; इत्याक्षेपः ॥१५॥

 कारणज्ञानेन कार्यनिवृत्तौ सम्मतिमाहनिवृत्त इति ।

निवृत्त एव यस्मात्ते तत्सत्यत्वमतिर्गता ।
ईदृङ् निवृत्तिरेवात्र बोधजा न त्वभासनम् ॥ ४६ ॥

 घटोऽपि निवृत्त एव । तत्र कारणं दर्शयति, यस्मादिति । यस्मात् ते तत्सत्यत्वमतिः तस्य घटस्य वास्तवत्वबुद्धिः गता निवृत्त तस्मात् । ननु शुक्ति रजतस्थले आरोपितस्य रजतस्यैव निवृचिर्दश्यते । न तु तस्य सत्यत्वबुद्धेः । एवं प्रकृतेऽपि घटादेरपि निवृतुिर्वक्तव्या । सा च नो घटते । इत्याशंक्य दृष्टान्त- दार्ष्टान्तिकयोवैषम्यमभिप्रेत्याह, ईदृगिति । अत्र । घटादिसोपाधिकभ्रमस्थलेषु ईदृगेव सत्यत्वज्ञाननिवृत्तिरूपा बोधजा अधिष्ठानस्य याथार्थज्ञानजन्या घटादे निवृत्तिभ्युपेया। भासनं तु कार्यस्वरूपाभानं तु निवृत्तिरिति नाभ्युपेया ।