पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/५६६

एतत् पृष्ठम् परिष्कृतम् अस्ति
५३४
[ब्रह्मनंदे अद्वैतानंद
पञ्चदशी

परिणामे पूर्वरूपं त्यजेत्तत्क्षीररूपवत् ।
मृत्सुवर्णं निवर्तते घटकुंडलयोर्न हि ॥ ६९॥

 मृदेव घटाकारेण परिणमत इति न वक्तव्यं । कुतः ? परिणामे मृदा- धुपादानं पूर्वरूपं परिणामापूर्वरूपं यत्स्वीयं रूपं तत्परिणामानन्तरं क्षीररूपवत् । त्यजेत् । एवं च यत्र पूर्वरूपपरित्यागस्तत्र परिणाम इति व्यवहारः । अत्र पूर्व- रूपापरित्यागाद्विवर्तत्वमेवाभ्युपेयमिति भावः । घटे पूर्वरूपापरित्यागं सदृष्टान्ते विशदयति, मृदिति । घटकुंडलयोर्मृत्सुवर्णं घटे मृत् कुंडले सुवर्णं च न निवर्तते। अत्र सुवर्णकुंडलोपादानं दृष्टान्तप्रदर्शनार्थं । यथा कुंडले सत्यपि सुबर्ण न निवर्तते। कुंडलसद्भावदशायामपि सुवर्णबुद्धेः सत्वात् । तथा घटसद्भावदशायामपि मृन्न निव र्तते । अतः सुवर्णस्येव मृदोऽपि विवर्तितैवेति भावः ॥१९॥

 ननु कुंडलनाशे सुवर्णः सर्वैरुपलभ्यते, न तथा घटनाशे मृदुपलभ्यते, तदानीं कपालयोरेवोपलंभात् , इति शंकते, घट इति ।

घटे भग्ने न मृद्भावः कपालानामवेक्षणात् ।
मैवें चूर्णेऽस्ति मृद्रूपं स्वर्णरूपं त्वतिस्फुटम् ॥ ५० ॥

 घटे भग्ने सति कपालानां कं जलं शिरो वा पालयतीति कपाकः तेषामवे क्षणात् उपलंभात् घटे मृद्भावः क्षुद्भयं नोपलभ्यते । अतः कथमुच्यते तस्य विवर्तित्वमिति भावः । समाधत्ते, मेति। एवं मा वद । कुतः ? कपालानां चूर्णं मृदूपमस्येव । कालावस्थायां स्यास्फुटत्वेऽपि तस्य चूर्णतावस्थायां मृद्रूपं स्पष्टतया प्रतीयते । दृष्टान्तभूते सुवर्णं तु नैतच्छंकाया अवकाश इत्याहस्वर्णेति। स्वर्णरूपं तु अतिस्फुटम् । साक्षादिव स्फुटतया भासते । घटस्थले मृद्रूपस्य परंपरया स्फुटतया भानमित्येतावानेव विशेष इति भावः ॥ ५०॥

 ननु “अवस्थान्तरतापत्तिरेकस्य परिणामिते” (१३.८.) त्यत्र क्षीरमृत्सु- वर्णानां परिणामिदृष्टान्तत्वमुक्तम् , अत्र तु तेषां मध्ये मृत्सुवर्णयोर्विवर्तदृष्टा- न्तत्वमुक्तम्, एवं सति क्षीरस्यापि तथात्वं किं न स्यादित्याशंक्याह, क्षीरोति ।

क्षीरादौ परिणामोऽस्तु पुनस्तद्भाववर्जनात् ।