पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/५६७

एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम् ॥१३॥ ]
४५५
कल्याणपीयूषव्याख्यासमेता

एतावता मृदादीनां दृष्टान्तत्वं न हीयते ॥ ५१॥

 क्षीरादौ पुनः विकारनाशे तद्भाववर्जनात् तस्य क्षीरादेर्मावस्य वर्जनात् परिणामोऽस्तु । एवं सति कुंभकुंडलावस्थामवाप्तयोर्मृत्सुवर्णयोर्विवर्तत्वं नोपपद्यत इत्याशंक्याह, एतावतेति । एतावता मृदादीनां विवर्तस्य दृष्टान्तत्वं न हीयते । अत्रायं भावः । क्षीरस्यावस्थान्तरप्राप्तौ तद्रूपविगलने पुनः पूर्वं रूपं न दृश्यते । अतः केवलपरिणामवमेव तत्र वक्तव्यम् । मृत्पुवर्णयोरवस्थान्तरप्राप्तौ तदपाये पूर्वरूपस्य दर्शनात् विवर्तत्वमपि वक्तव्यम् । एवं चावस्थान्तरतापत्तिमात्रं परिणामलक्षणंतत्रिष्वपि वर्तते । अतो मृत्सुवर्णयोरपि परिणामिदृष्टान्तत्वोक्तिर्नासंगता। विवतुं त्ववस्थान्तरविगलनोत्तरकालिकपूर्वरूपवत्वमिति वक्तव्यम् । सा च मृत्सुवर्णयो रेव न तु क्षोरस्य । एवं च परिणामित्वं व्यापकम् विवतत्वं तु तव्द्याप्यमिति॥५१॥

 ननु मृत्सुवर्णयोर्यदि परिणामित्वमष्यंगीक्रियते तद्वदारंभकत्वमपि किं नांगीक्रियत इत्याशंक्याह, आरंभेति ।

आरंभवादिनः कार्यं मृदो हैगुण्यमापतेत् ।
रूपस्पर्शादयः प्रोक्ताः कार्यकारणयोः पृथक् ॥ ५२ ॥

 कारणात् परमाणुभ्यः कार्यमारभ्यत इति वदत आरंभवादिनो मते आरब्धे कार्ये घटे मृदो द्वैगुण्यमापतेत् । तत्र कारणमाह, रूपेति । कार्यकारण- योरन्योन्यं भिन्नरूपत्वात्तयोः रूपस्पर्शादयो गुणाः पृथक्प्रोक्ताः । एवं च कारण गुणानां कार्यगुणानां च पार्थक्येन मृद्युभयगुणसम्मेलनाद्त्रैगुण्यमापतेदित्यर्थः । परमाणुकारणवादः श्रीभगवपादैः २. २. १२ सूत्रभाष्ये व्याख्यातः । कुतूहलि भिस्तत्रावलोक्यताम् ॥ ५२ ॥

 मृत्सुवर्णयोरिवान्यस्यापि विवर्तदृष्टान्तत्वं श्रुतिप्रसिद्धमित्याहमृदिति ।

मृत्सुवर्णमयश्चेति दृष्टान्तत्रयमारुणिः।
प्राहातो वासयेत्कार्यानृतत्वं सर्ववस्तुषु ॥ ५३ ॥

 आरुणिः स्वीयं पुत्रं सर्वकार्यस्यानृतत्वमुपदिशन् “यथा सोभ्येकेन