मूत्पिंडेने” (छां. ६.१.४.) त्यारभ्य “कृष्णायसमित्येव सत्य’ (छां. ६. १. ६) भियंतेन मृत्सुवर्णे अयो लोहमिति दृष्टान्तत्रयं प्राह । फलितमाह अत इति । सर्ववस्तुषु कार्यानृतत्वं वासयेत् संयोजयेत् । दृष्टान्तत्रयोक्त्या त्रित्वे बहुत्वमिति न्यायेन बहुषु कार्यानृतत्वोपलंभेन सर्वेष्वपि वस्तुषु कार्यानृतत्वं कारणस्य सत्यत्वं चनुसंदध्यादित्यर्थः ॥ ५३ ॥
कारणांशस्यैव बोद्धव्यताकथनम्
कारणज्ञानात्कार्यज्ञानसिद्धये कार्यानृतत्वानुसंधानमप्युक्तमित्याह, कार णेति
कारणज्ञानतः कार्यविज्ञानं चापि सोऽवदत् ॥ ५३ ॥ |
स उद्दालकः ‘यथा सोम्यैकेन मृत्पिंडेन सर्वे मृण्मयं विज्ञातं स्यात्। (छां. ६, १.४.) इति कारणज्ञानतः कार्यविज्ञानं चावदत् ।
ननु मृत्सुवर्णादिकारणविज्ञानेन घटकटकादिकार्यज्ञानं कथं सिध्यतीति शंकां “कथं नु भगवः स आदेशो भवतीति (छां. ६• १. ३.) श्रुतिप्रतिपादि तामनुवदति, सत्यज्ञानेति ।
सत्यज्ञानेऽनृतज्ञानं कथमत्रोपपद्यते ॥ । ५४ ॥ |
ननु सत्यज्ञानं सत्यस्य मृदादिकारणस्य ज्ञाने यथार्थज्ञाने सति तद्वि लक्षणस्य घटादिकार्यजातस्य अनृतज्ञानं कथमुपपद्यत इति शंका ॥ ५४॥
कार्यस्यांशद्वयविशिष्टत्वात्तत्र कारणादेकांशेन कार्यज्ञानमुपपद्यत इति समाधते, समुत्कस्येति ।
समुत्कस्य विकारस्य कार्यता लोकदृष्टितः। |
समुत्कस्य कारणभूतसूसहितस्य विकारस्य घटादेः लोकदृष्टितः कार्यता भवति । अधिष्ठानसहितमारोपितं घटादि कार्यशब्देनाभिधीयते । एवं सति घटादिकार्थे मृदादिकारणांशः पृथुबुघ्नोदराकारविकारांशश्चेति द्वावंशौ विधेते । अत्र मृदंशो वास्तवः। अस्य वास्तवांशस्य बोधः कारणबोधतो भवति ।