पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/५६९

एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम् ॥१३॥ ]
५३७
कल्याणपीयूषव्याख्यासमेता

कारणज्ञाने सति कार्यगतवास्तवांशज्ञानसिद्धिरिति भावः ॥५५॥

 ननु कार्यगतवास्तवांश इव अनृतांशोऽपि बोद्धव्य एवेत्याशंक्याह अनृतेति ।

अनृतांशो न बोद्धव्यस्तद्वोधानुपयोगतः।
तत्त्वज्ञानं पुमर्थं स्यान्नानृतांशावबोधनम् ॥ ५६ ॥

 घटे विद्यमानयोः मृदंशपृथ्वादिविकारांशयोर्मध्येऽनृतांशः पृथ्वादिविका- रांशो न बोद्धव्यः । । कुतः ? तबोद्वधानुपयोगतः। अनृतांशज्ञाने प्रयोजना भावात् । तदेव विशदयति, तत्त्वेति । तत्वज्ञानं आबाधितार्थज्ञानं पुमर्थे पुरु- षार्थप्रयोजकं स्यात् । अनृतांशावबोधनं न पुमर्थ ॥ ५६॥

 ननु कारणज्ञानात्कार्यज्ञानं भवतीत्युक्तौ श्रोतृणां विस्सयो लोकेऽनुभव सिद्धः । भवदुक्तदिशा कारणज्ञानात्कार्यज्ञानमित्यस्य मृदज्ञानान्मृद्ज्ञानमित्यर्थे पर्यवसानाद्विस्मयस्यावकाश एव नास्तीति शंकते, तर्हीति ।

तर्हि कारणविज्ञानात्कार्यज्ञानमितीरिते ।
मृद्वोधान्मृत्तिका बुद्धेत्युक्तं स्यात्कोऽत्र विस्मयः ॥५॥

 तर्हि कारणविज्ञानात् मृदादेः ज्ञानात् कार्यविज्ञानं भवतीति ईरिते उक्ते सति मृद्धोधात् कारणभूतया मृद्रो ज्ञानात् मृत्तिका कार्यगतमृत्तिकांशो बुद्धा इत्युक्तं स्यात् । एवं सत्यत्र को विस्मयः ? केवलशब्दचमात्कार एव न त्वर्थविशेष इत्यर्थः ॥ ५७ ॥

 यद्यपि कार्यगतसत्यासत्यांशविवेकवतां नायं विस्मयहेतुः, तथापि तद्वि वेकविधुराणां विस्मयो भवत्येवेति परिहरति, सत्यमिति ।

सत्यं कार्येषु वस्त्वंशः कारणात्मेति जानतः।
विस्मयो मुऽस्त्विहाज्ञस्य विस्मयः केन वार्यते ॥ ५८ ॥

 सत्यमित्यर्थोगीकारे । कार्येषु यो वस्त्वंशः पारमार्थिकांशः सः कारणात्मा कारणस्वरूप इति जानतः विदुषो विस्मयो माऽस्तु । तत्र विस्ययो नास्तीत्यस्मा

68