भिरप्यंगीक्रियत एवेति भावः । किंत्वज्ञस्य तदनभिज्ञस्य विस्मयः केन वार्यताम्। विवेचनाविकलोऽवश्यं विस्मितो भवत्येव; तस्य सत्यांशज्ञानाभावादिति भावः५८॥
अज्ञकीर्तनपुरस्सरं विस्मयं दर्शयति, आरंभीति ।
आरंभी परिणामी च लौकिकश्वैककारणे । |
आरंभी आरंभबादी परिणामी परिणामवादी लौकिकश्च उक्तप्रक्रियाद्वया। नभिज्ञः केवलपामरः एककारणे ज्ञाते सर्वमतिं सर्वस्य कार्यजातस्य मतिं अवबोधं श्रुत्वा सर्वस्य कार्यजातस्य ज्ञानं भवतीति ज्ञात्वा एकविज्ञानेन सर्वविज्ञानं भवतीति विज्ञायेयर्थः, विस्मयं प्राप्नुवन्त्येव। औदालके विसथं श्रुतिर्दर्शयति “कथं नु भगवः स आदेशो भवती"ति (छां ३. १. ३) ॥ ५९ ॥
सर्वविज्ञानश्रुतितात्पर्यकथनम् ।
ननु सामान्यतः प्रवृत्तायाः सर्वविज्ञानश्रुतेः संकोचेन सत्यांशमात्रपर- तया योजनं किं कारणकमित्याशंक्य श्रुतेस्सामान्यतो योजने तात्पर्याभावा त्संकोचेन योजनमित्याह, अद्वैत इति ।
अद्वैतेऽभिमुखीकर्तुमेवात्रैकस्य बोधतः । |
एकस्य सर्वजगत्कारणभूतस्य परमात्मनो बोधतः ज्ञानेन अत्रैते अभिमुखी क्रतुं सुमुखीकर्तु छांदोग्यश्रुतैौ सर्वबोधः सर्वेषां कार्याणां बोघः श्रुतः । न तु नानात्वविवक्षया नानात्वस्य द्वैतस्य बुबोधयिषया। श्रोतृणामद्वैते सुमुखीचिकीर्षया श्रुत्या कार्यकारणप्रसंगः क्रियते न तु नानात्वबुबोधयिषय। अतः श्रुतेर्वस्तुसामा न्यबोधने न तात्पर्यमिति संकोचेन योजनं कृतमिति भावः ॥ ६०॥
"यथा सोम्येकेन सृसिंडेने” (छां. ६१४) ति श्रुतिप्रतिपादितं । दृष्टान्तं दृाष्टांतिके योजयति, एकेति ।
एकमृपिंडविज्ञानात् सर्वमृण्मयधीर्यथा। |