पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/५७१

एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम् ॥१३॥ ]
५३९
कल्याणपीयूषव्याख्यासमेता

तथैकब्रह्मबोधेन जगहुद्धिर्विभाव्यताम् ॥ ६१ ॥

 एकमृतपिंडविज्ञानात् घटशरावादिकार्यबहुलस्य कारणभूतस्य एकस्य मृतपिंडस्य बोधात् सर्वमृण्मयधीः सर्वमृद्विकारजातस्य सत्यांशो मृदिति बोधो यथा भवति तथा एकब्रह्मबोधेन जगत्कारणभूतस्यैकस्य ब्रह्मणो ज्ञानेन जगहुद्धिः सर्वं जगत् कारणभूतेन सत्यांशेन बुद्धे भवतीति विभाव्यताम् । अनेन ‘यथा सोम्येकेन मृत्पिंडेन सर्वं मृण्मयं विज्ञातं स्यात्” (सु. ६.१..) “येनाश्रुतं श्रुतं भवत्यमतं मतमविज्ञातं विज्ञातं” (छ. ६.१२) इति श्रुत्यर्थ उपवर्णित इति बोध्यन्। मृदो ज्ञानेन तद्विकारभूतानां घटशरावादीनां मृदंशः सत्यांश इति ज्ञायते । तथैव बलज्ञानेन तस्मिन्नारोपितस्य जगतः सत्यांशो ब्रह्म इति ज्ञायते ॥६१॥

कार्यकारणस्वरूपनिरूपणम्

 कार्यकारणस्वरूपनिरूपणेन कार्यस्वरूपस्यासत्यत्वबोधनद्वारा तस्यान पेक्षतां बुबोधयिषुः कार्यकारणस्वरूपे विवेचयति, सदिति ।

सच्चित्सुखात्मकं ब्रह्म नामरूपात्मकं जगत् ।
तापनीये श्रुतं ब्रह्म सच्चिदानंदलक्षणम् ॥ ६२ ॥

 ब्रह्मा सञ्चित्सुखात्मकं सञ्चिदानन्दस्वरूपं , जगत् नामरूपात्मकं विकार- धरूपं, “बलैवेदं सर्वं सच्चिदानन्दमात्र’ (छ, ता. ७) मियुतरतापनीये नृसिंहतापनीये ब्रह्म सच्चिदानन्दलक्षणमिति श्रुतम् ॥ ६२ ॥

 विवक्षितार्थं श्रुत्यन्तराप्युदाहरति, सदिति ।

सद्पमारुणिः प्राह प्रज्ञानं ब्रह्म बह्वृचः ।।
सनत्कुमार आनन्दमेवमन्यत्र गम्यताम् ॥ ६३॥

 ‘सदेव सोम्य इदमग्र आसीदिति” (छ. ६.२.१) ब्रह्मणः स्वरूपं सत्तामात्रस्वरूपं आरुणिः प्राह । बह्वृचः ऋक्शाखाध्यायिनः "प्रज्ञाने प्रतिष्ठितं प्रज्ञानेत्रो लोकः प्रज्ञा प्रतिष्ठा प्रज्ञानं ब्रह्मे"ति (ऐत. ३. ६) चिरूपत्वमाहुः । भूमत्वेन विजिज्ञासितव्यः” (छ, ७,१३.१) इत्यारभ्य “यो . भूमा तदमृतं”