पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/५७३

एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम् ॥१३॥ ]
५४१
कल्याणपीयूषव्याख्यासमेता

 “नामरूपाभ्यामेव व्याक्रियत”इत्यस्यार्थमाहअविक्रियेति ।

अविक्रियब्रह्मनिष्ठा विकारं यात्यनेकधा ।
माया तु प्रकृतिं विद्यान्मायिनं तु महेश्वरम् ॥ ६६ ॥

 अविक्रियब्रह्मनिष्ठा विकाररहिते परे ब्रह्मणि या नितरां स्थिता सा अव्याकृताभिधा माया अनेकधा विकारं याति, अचिन्त्यशक्तित्वात् । माया ब्रह्मणि वर्तत इत्यत्र प्रमाणमाह मायामिति । अस्यार्थः १-२, ६-१२३ श्लोकयोः व्याख्यातः ।। ६६ ।।

आकाशस्वरूपविचारः।

 जगतो व्याकरणविधैौ मायोपहतस्य ब्रह्मणः प्रथमकार्यमाह, आद्य इति ।

आद्यो विकार आकाशः सोऽस्ति भात्यपि च प्रियः।
अवकाशस्तत्स्वरूपं तन्मिथ्या न तु तत्त्रयम् ॥ ६७ ॥

 मायाया आद्यों विकारः आकाशः । स आकाशः अस्ति भाति प्रियश्च इति व्यवहारो लोके दृश्यते । अस्तीति ब्रह्मलक्षणं । भातीति चैतन्यधर्मः । प्रिय इत्यानंदधर्मः । एवमाकाशः सम्चिदानन्दरूपः तत्स्वरूपं त्ववकाशो विकारात्मकः तत्स्वरूपं मिथ्या तत्त्रयं अस्ति भाति प्रिय इति कारणधर्मत्रयं तु न मिथ्या। अत्र २-६१-६९ श्लोका अवलोकित व्याः ॥६७॥

 अवकाशस्य मिथ्यात्वे उपपतिं दर्शयति, नेति ।

न व्यक्तेः पूर्वमस्त्येव न पश्चाच्चापि नाशतः ।
आदावन्ते च यन्नास्ति वर्तमानेऽपि तत्तथा ॥ ६८ ॥

 व्यक्तेः व्याकरणात् पूर्वं नास्त्येव; अनुपलंभात् । पूर्वमपि सत्त्वे आद्यक्षण संबंधरूपाया उत्पत्तेस्तदानीमसंभवाच्चेति भावः “सदेव सोम्य....अम्र आसीदि" (छां. ६. २. १. त्यवधारणाबलाच्च। नाशतः पश्चाच्चापि नास्ति, नष्टत्वात् । स्तु उत्पतिविनाशयोर्मध्ये प्रतीयमानस्याकाशस्यावस्तुत्वं वक्तुं कथं श्क्यत् इत्यंत