पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/५७४

एतत् पृष्ठम् परिष्कृतम् अस्ति
५४२
[ब्रह्मनंदे अद्वैतानंद
पञ्चदशी

आह, आदाविति । आदौ उत्पत्तेः पूर्वं अन्ते च नाशनानन्तरं यन्नास्ति यस्य प्रागभावप्रध्वंसाभावयोर्मध्येऽवभासनं तद्वर्तमानेऽपि तथा अविद्यमानमेवेत्यर्थः ॥६८॥

 अत्र गीतावाक्यमुदाहरति, अव्यक्तेति ।

अव्यक्तादीनि भूतानि व्यक्तमध्यानि भारत!।
अव्यक्तनिधनान्येवेत्याह कृष्णोऽर्जुनं प्रति ॥ ६९ ॥

 हे भारत! भूतानि प्राणिकोटयः अव्यक्तादीनि अज्ञातः आदिर्येषां तानि तथा भूतानि । व्यक्तमध्यानि व्यक्तः आविष्कृतः उत्पत्तिविनाशयोर्मध्यघटितभागो येषां तानि । अव्यक्तनिधनान्येव अव्यक्तं अनाविष्कृतं निधनं नाशनं येषां तानि एवेति श्रीकृष्णः अर्जुनं प्रत्याह ॥ ६९॥

 सच्चिदानन्दरूपस्य सत्वेऽनुभूतिरेव प्रमाणामित्याह, मृद्वदिति ।

मृद्वत्ते सच्चिदानन्दा अनुगच्छन्ति सर्वदा।
निराकाशे सदादीनामनुभूतिर्निजात्मनि ॥ ७० ॥

 मृद्वत् मृकार्यं घटादिस्थले कालत्रयेऽपि यथा मृदनुवर्तते तथा सकार्य. भूतेष्वाकाशादिषु सर्वदा कालत्रयेऽपि ते खञ्चिदानंदा अनुगच्छन्ति । कथमिदं ज्ञायत इत्यत आह, निराकाश इति । निराकाशे सति बुद्ध्या आकाशांशस्य अवकाशे मिथ्यात्वेन विवेचिते सति निजात्मनि सदादीनामनुभूतिर्दृश्यते ॥ ७०॥

 अमुमेवार्थं प्रपंचयति, अवकाश इति ।

अवकाशे विस्मृतेऽथ तत्र किं भाति ते वद ।
शून्यमेवेति चेदस्तु नाम तादृग्विभाति हि ।। ७१ ॥ ।

 आकाशस्य स्वीयस्वरूपे अवकाशे विस्मृते सति अथ अनन्तरं ते किं भाति वद । आकाशे कारणादागताः सच्चिदानन्दा धर्मा; स्वीये धर्मेऽवकाशः। अन्त्ये मिथ्यात्वेन विस्मृते सति सच्चिदानन्दा एवावशिष्यन्त इति गूढाभिसंधिः । प्रतिवादिनधोद्यमनुवदति, शून्यमिति । अवकाशे विस्मृते सति शून्यमेव भातीति चेत्, अंगीकृत्य परिहरति, अस्त्विति । शून्यमेवास्तु । तत्र विद्यमानस वस्तुनः