पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/५७५

एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम् ॥१३॥ ]
५४३
कल्याणपीयूषव्याख्यासमेता

शून्यमिति नामास्तु नाम । तथापि तादृक् शून्यशब्दाभिधेयतया विशेष्यभूतं किंचिद्वस्तु विभाति प्रकाशते हि । अवकाशाभावरूपविशेषणस्य विशेष्याभावेऽवि द्यमानत्वात् तस्यास्तिस्वमवश्यमभ्युपेयम् । यथा घटाभाववद्भतलमित्यत्र घटाभाव वदिति विशेषणस्य भूतलमिति विशेष्याभावे निरर्थकता स्यात् । अतो विशेषभूत- स्यावकाशाभावस्यार्थतोऽस्तित्वमवश्यमभ्युपगन्तव्यम् । एवं सति भवदुक्तशून्यशब्द वाच्येऽपि सत्तारूपधर्मोऽङ्गीक्रियते । एवमाकाशादिभूतपञ्चकस्य निस्तत्त्वरूपतापि द्वितीयाध्याये ६०-९५ श्लोकेषु समग्रं विवृतेत्यत्र सामान्यतः प्रसक्तानुप्रसक्त्या सूचितेति ज्ञेयम् ॥ ७१ ॥

स्वरूपसुखलक्षणविचारः ।

 तस्य सत्ता किमित्यंगीक्रियत इत्यत आहतादृगिति ।

तादृत्वादेव तत्समौदासीन्येन तत्सुखम् ।
आनुकूल्यप्रातिकूल्यहीनं यत्तन्निजं सुखम् ।। ७२ ॥ ।

 तादृक्त्वादेव तत्सत्वं । तादृक्तवात् अवकाशाभावविशेष्यतया प्रतीयमानत्वात् भवदुक्तशून्यशब्दाभिधेयत्वाच्च तत्सत्वं निधोयते । नन्वस्तु तस्य सत्वम्; तस्य सुखरूपत्वं कथमित्याशंक्याह, औदासीन्येति । तत्सुखं औदासोन्येन विषयानव गाहित्वात् तत्सुखं भवति । ननु उदासीनरूपं सुख न स्यात्, तस्यानुकूलतया वेद्यत्वाभावादित्यत आह, “आनुकूल्ये"ति । आनुकूल्यप्रातिकूल्यहीनं यत्सुखं विद्यते तन्निजं सुखं स्वरूपसुख भवति । अनुकूलतया वेदनीयं सुखमिति पुरोक्तं लक्षणं तु वैषयिकसुखस्य । न तु स्वरूपसुखस्य । स्वरूपसुखस्य त्वानुकूर्यप्राति कूल्यराहित्यमेव लक्षणम् । तत्प्रकृतेऽस्तीति भावः ॥ ७२॥

 स्वरूपसुखे उभयराहित्यं व्यतिरेकेण दर्शयति, आनुकूल्य इति ।

आनुकूल्ये हर्षधीः स्यात्प्रातिकूल्ये तु दुःखधीः ।
द्वयाभावे निजानन्दो निजदुःखं न तु क्वचित् ॥७३॥

 आनुकूल्ये सति हर्षधीः संतोषः स्यात् । प्रातिकूल्ये तु दुःखधीः दुःखं चानुभूयते । संतोषाभावादानुकूल्याभावःदुःखाभावात् प्रातिकूल्याभाव इति भावः ।