द्वयाभावे संतोषदुःखयोरभावे निजानन्दोऽनुभूयते । सुखदुःखान्तरालेषु विद्यमाने औदासीन्ये निजानन्दमानस्याखिलजनानुभूतिसिद्धत्वात् । उपाधिविरहितो निजा नन्दस्वरूप इत्यर्थः । अत्रैकादशप्रकरणोक्तानन्दभेदविवक्षामकृत्वानन्दस्वरूपसुख लक्षणस्य प्रतिपिपादयिषयैव वैषयिकसुखद्यस्पृष्टं स्वरूपं सुख निजानन्दशब्देनाभि हितम् । तस्य निजदुःखत्वमेव किं न स्यादित्याशंक्य निजदुःखं शशश्रृंगायमाण- मिति परिहरति, निजेति । क्वेचिदपि निजदुःख न । दुःखे निजत्वस्य कुत्राप्य भावात् । आनन्दे स्वभावसिद्धत्वं तु ब्रह्मानन्दे प्रसिद्धमिति भावः ॥ ७३ ॥
ननु निजानन्दस्य नित्यत्वादानन्दरूपत्वाच सदा हर्ष एव स्यात्, न तु शोकः। किंच तत्र हर्षस्यापि सत्वात्तदनुरोधेनानुकूल्यस्य निश्चेतुं शक्यत्वात्पू र्वोक्तनिजानन्दलक्षणमसंभवग्रस्तमित्याशंक्य परिहरति, निजानन्देति ।
निजानन्दे स्थिरे हर्षशोकयोर्यत्ययः क्षणात् । |
निजानन्दे स्थिरेऽपि मनसः क्षणिकत्वेन चंचलत्वात् हर्षशोकयोः क्षणात् व्यत्ययः विनिमयः संभवति । अतस्तयोः सुखदुःखयोः मानसता मनसः संबंधता 'मनोधर्मत्वं इष्यतां । अयं भावः । यदि निजानन्दे हर्षः स्यात्तदा तस्य नित्यत्वा त्सदा हर्ष एव स्यात् । हर्षस्तु न निजानन्दघर्मः । अपि तु मनोधर्मः । तस्य क्षणिकवातद्धर्मस्य हर्षस्यापि क्षणिकत्वान्न नित्यत्वप्रसंगः । एवं च तदभावदशायां शोकस्याप्यवकाशोऽस्त्येव । हर्षस्य मनोधर्मत्वाभ्युपगमेन हर्षप्रयोजकानुकूल्यमपि निजानन्देऽस्तीति लक्षणमपि नासंभवग्रस्तमिति ॥ ७४ ॥
एवमाकाशे कारणगतसत्ताभानयोरनुगमं प्रतिवादिनाऽङ्गीकारयित्वां तद्दृष्टान्तेन कारणीभूतव्रह्मानन्दस्यापि कार्यभूते आकाशेऽङ्गीकार इत्याह, आकाश इति ।
आकाशेऽप्येवमानन्दः सत्ताभने तु सम्मते ॥ ७४ ॥ |
एवं पूर्वोक्तदृष्टान्तवशादाकाशेऽप्यानन्दोऽनुगतो विद्यत एवेत्यर्थः । ननु तयोर्दष्टान्तत्वे न घटते, तत्राप्यनुगमस्यासिद्धात्दित्यत आह, सत्तेति ।