पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/५७७

एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम् ॥१३॥ ]
५४५
कल्याणपीयूषव्याख्यासमेता

सराभाने तु सम्मते । दृष्टान्तभूते ते सम्मते । शून्यं भातीति वदता त्वयांगीकृते । एव अतस्तयोर्दष्टान्तत्वे विप्रतिपत्तिर्नास्तीति भावः ॥ ७४॥

 आकाशे इव वाय्वादिष्वेवमेव सन्ताद्यनुगमोऽवगम्यतामित्याहवाय्विति ।

वाय्वादिदेहपर्यन्तं वस्तुष्वेवं विभाव्यताम् ॥ ७५॥

 स्पष्टोऽर्थः ॥ ७५॥

 तत्र वाय्वादीनां स्वीयान् धर्मानुदाहरति, गतीति ।

गतिस्पशौं वायुरूप वहनेदाहप्रकाशने ।
जलस्य द्रवता भूमेः काठिन्यं चेति निर्णयः ॥ । ७६ ॥ ।

असाधारणं आकार औषध्यन्न वपुष्यपि ।
एवं विभाव्यं मनसा तत्तद्रूपं यथोचितम् ॥ ७७ ॥

 रूपं असाधारणं रूपं । स्पष्टमन्यत् ।। ७६, ७७ ॥

 फलितमाह, अनेकधेति ।

अनेकधा विभिन्नेषु नामरूपेषु चैकधा ।
तिष्ठन्ति सच्चिदानन्दा विसंवादो न कस्यचित् ॥७८॥

 सुलभा पदयोजना, सच्चिदानन्दाः कारणधर्मा एकधा नियतं तिष्ठन्ति । चेतनाचेतनेषु सर्वेषु सचिदानन्द। अनुवर्तन्ते । तेषां नामरूपे तु व्यावर्तेते । यत्सर्ववस्तुष्वनुवर्तते तत्सत्यं । यद्यवर्तते तदसत्यं । अतः सच्चिदानन्दाः सत्य स्वरूपाः। नामरूपे असत्यस्वरूपे इति भावः ॥ ७८ ॥

नामरूपयोः काल्पनिकत्वकथनम् ।

 असत्यभूतयोर्नामरूपयोः प्रतीयमानयोः किं रूपमित्यत आह, निस्तत्वे इति ।

निस्तत्वे नामरूपे हे जन्मनाशयुते च ते।
बुद्य्या ब्रह्मणि वीक्षख समुद्रे बुद्बुदादिवत् ॥ ७९ ॥

69