पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/५७८

एतत् पृष्ठम् परिष्कृतम् अस्ति
५४६
[ब्रह्मनंदे अद्वैतानंद
पञ्चदशी

 नामरूपे द्वे निस्तत्वे निरस्ततत्वे कल्पिते । कुतः? ते जन्मनाशयुते । जायेते विनश्येते । अतो वर्तमानेऽप्यविद्यमाने । तर्हि ते कुत्र कल्पिते इत्याकां क्षायामाहबुध्येति । समुद्रे बुद्बु,दादिवत् यथा समुद्रजले फेनतरंगतुषारादिकं कल्पितं बुद्ध्या वीक्ष्यते तथैव ते नामरूपे ब्रह्मणि कल्पित इति बुद्ध्या वीक्षस्व जनीहि ॥ ७९ ॥

 किं तेन ब्रह्मवीक्षणेनेत्यत आह, सच्चिदिति ।

सच्चिदानन्दरूपेऽस्मिन् पूर्णं ब्रह्मणि वीक्षिते ।
स्खयमेवावजानाति नामरूपे शनैः शनैः ॥ ८० ॥

 स्पष्टोऽर्थः । अत्र २७७ श्लोकः समवलोकनीयः ॥ ८०॥

नामरूपयोरवज्ञाफलकथनम् ।

 अवज्ञाफलमाह यावदिति ।

यावद्यावदवज्ञा स्यात्तावत्तावत्तदीक्षणम् ।
यावद्यावदीक्ष्यते तत्तावत्तावदुभे त्यजेत् ॥ ८१ ।।

 स्पष्टोऽर्थः ॥ ८१॥

 एवमभ्यासस्य फलमाह, तदिति ।

तदभ्यासेन विद्यायां सुस्थितायामयं पुमान् ।
जीवन्नेत्र भवेन्मुक्तो वपुरस्तु यथा तथा ॥ ८२ ॥

 स्पष्टोऽर्थः ॥ ८२॥

ब्रह्माभ्यासस्वरूपविचारः ।

 इदानीं ब्रह्माभ्यासस्वरूपमाह, तदिति ।

तच्चिन्तन तत्कथनमन्योन्य तत्प्रबोधनम् ।
एतदेकपरत्वं च ब्रह्माभ्यासं विदुर्बुधाः ॥ ८३ ॥

 अयं श्लोकः ७-१०६ श्लोके व्याख्यातः ॥ ८३ ॥