पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/५७९

एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम् ॥१३॥ ]
५४७
कल्याणपीयूषव्याख्यासमेता

 ननु कादाचित्कब्रह्मज्ञानाभ्यासेऽनादिद्वैतवासना कथं निवर्तत इत्यत आह, वासनेति ।

वासनाऽनेककालीना दीर्घकालं निरन्तरम् ।
सादरं चाभ्यस्यमाने सर्वथैव निवर्तते ॥ ८१ ॥

 अनेककालीना प्रपञ्चस्यानादित्वात् । स्पष्ठमन्यत् ॥ ८४ ॥

मायाशक्तरनेकविकारोत्पादकत्वकथनम् ।

 नन्वेकस्य परब्रह्मणोऽनेकविधजगत्कारणत्वं नो घटत इत्याशंक्याह, मृदिति ।

मृच्छक्तिवद्रह्मशक्तिरनेकाननृतान् सृजेत् ।
यद्वा जीवगता निद्रा खप्नश्चात्र निदर्शनं ॥ ८५॥

 मुलभा पदयोजना । मृच्छक्तिमायाशक्त्योः सत्यासत्यत्वभेदेन वैलक्षण्या दृष्टान्तस्य वैलक्षण्यमाशंक्य दृष्टान्तान्तरमाह, यद्वेति ॥ ८५॥

 निद्रादृष्टान्तं विवृणोति, निद्राशक्तिरिति ।

निद्राशक्तिर्यथा जीवे दुर्घटस्वप्नकारिणी ।
ब्रह्मण्येषा स्थित माया सृष्टिस्थित्यन्तकारिणी ॥ ८६ ॥

 सुगमा पदयोजना ॥८६॥

 दुर्घटस्वप्नकारित्वं स्पष्टयति, स्वप्न इति ।

स्वप्ने वियद्गतिं पश्येत्स्वमूर्धच्छेदनं तथा ।
मुहूर्ते वत्सरौषं च मृतपुत्रादिकं पुनः ॥ ८७ ॥

 मंचोपरि निद्रायमाणः पुरुषः पश्येदित्यन्वयः। स्पष्टमन्यत् ॥ ८७ ॥

 स्वप्नस्य दुर्घटत्वे हेतुमाह, इदमिति ।

इदं युक्तमिदं नेति व्यवस्था तत्र दुर्लभा ।
यथा यथेक्ष्यते यद्यत्तत्तद्दुक्तं तथा तथा ॥ ८८ ॥