पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/५८०

एतत् पृष्ठम् परिष्कृतम् अस्ति
५४८
[ब्रह्मनंदे अद्वैतानंद
पञ्चदशी

 स्पष्टोऽर्थः ॥ ८८॥

 उत्पादविनाशशालित्वेनानित्यायाः निद्राशक्तेरेवं दुर्घटकार्यकारित्वे सति किमुत मायाशक्तेरित्याह ईदृश इति ।

ईदृशो महिमा दृष्टो निद्राशक्तेर्यथा तथा ।
मायाशक्तेरचिन्त्योऽयं महिमेति किमद्भुतम् ॥ ८९ ॥

 निद्राशतेरीदृशो महिमा यथा दृष्टः तथा मायाशक्तेरयं महिमा अघटितघटनापटीयस्वरूपः अंचिन्त्यः मनसोऽतीत इत्युक्ते किमद्भुतं न किम पीत्यर्थः ॥ ८९ ॥

 माया ब्रह्मणि विकाराननेकान् कल्पयतीत्याह, शयान इति ।

शयाने पुरुषे निद्रा स्वप्नं बहुविधं सृजेत् ।
ब्रह्मण्ये निर्विकारे विकारान् कल्पयत्यसौ ॥ ९० ॥

 स्पष्टोऽर्थः ॥९०॥

 मायाकृतनानावृष्टिप्रकारं प्रदर्शयति, स्वेति ।

स्वानिलाग्निजलोव्र्यण्डलोकप्राणिशिलादिकाः।
विकाराः प्राणिधीष्वन्तश्छिच्छाया प्रतिबिंबिता ॥ ९१॥

 अंड: ब्रह्मांड, लोकाः सत्यादयः ( प्राणिनो जीवराशयः । इत्यादयो । विकारा अधिष्ठाने ब्रह्मणि मायया कल्पिताः । तेषु चेतनाचेतनविभांगप्रयोजकं दर्शयति । प्राणिधषु प्राणिनां धीषु बुद्धिषु अन्तः चिच्छाया चितः चैतन्यस्य छाया प्रतिबिंबिता भवति । प्राणिषु चिद्याप्तेः चिदाभासव्याप्तेश्च सत्वाच्चितः स्फुटतया भानाच्चेतनत्वव्यवहारः । वृक्षादिष्वन्तःकरणस्याभानाच्चिदाभासव्याप्तेरेन भिव्यक्तत्वाच्चिन्मात्रस्यैव व्याप्य तत्र चितोऽस्फुटत्वेन तेष्वचेतनत्वेन व्यवहारः । तत्रपि चैतन्यान्तःकरणयोरस्तित्वं बोस्महाशयेनापि (J. C. Bose,) निश्शकं सिद्धान्तीकृतम् । अचेतना इत्यस्यास्फुटचैतन्यवन्त इत्येवार्थः न तु चैतन्याभाववन्त इति । चितः सर्वव्यापकत्वेन तदभावस्य दुरुपपादत्वात् । एवं चेतनाचेतनविभागः ।