सुकर इति भावः ॥ ९१॥
ननु लोके चेतनाचेतनत्वविभागश्चैतन्यतदभावकृत इत्याशंक्य परिहरति चेतनेति ।
चेतनाचेतनेष्वेषु सच्चिदानन्दलक्षणम् । |
एषु चेतनाचेतनेषु सचिदानन्दलक्षणं ब्रह्मधिष्ठानं समानमेव, सर्वोपा दानत्वात् । उपादानस्य तत्कार्येष्वननुगमो न क्वापि दृष्टः। तेन चैतन्याभाव स्तत्रास्तीति दुर्निरूपः । अतः पूवोंक्त एव विभाग उचित इति भावः । किं तु नामरूपे पृथक् पृथक् भिद्येते ॥ ९२॥
नामरूपयोरुपेक्षायां ब्रह्मज्ञानसिद्धिः।
ब्रह्मणि नामरूपयोः कल्पितत्वात् तयोरुपेक्षायां सच्चिदानन्दधीर्भवतीत्याह, ब्रह्मणीति ।
ब्रह्मण्येते नामरूपे पटे चित्रमिव स्थिते । |
पटे चित्रमिव एते नामरूपे ब्रह्मणि स्थिते आरोपिते इत्यर्थः । कथमेव- मवगम्यत इत्यत आह, उपेक्ष्येति । द्वे नामरूपे उपेक्ष्य मिथ्यावबुध्याऽनादृत्य नामरूपयोरुपेक्षायां सर्वत्र सच्चिदानन्दधीः सर्वं जगत् सच्चिदानन्दस्वरूपमिति बुद्धिर्भवेत् ॥ ९३ ॥
उक्तार्थे दृष्टान्तं दर्शयति, जलस्थ इति ।
जलस्थेऽधोमुखे स्खस्य देहे दृष्टेऽप्युपेक्ष्य तम् । |
जलस्थेऽधोमुखे तीरगतमनुष्यदेहे तटाकजलेऽधोमुखेन प्रतिफलिते । तीरस्थे एवेति च्छेदः। स्पष्टमन्यत् ॥ ९४ ॥
दृष्टान्तान्तरमपि दर्शयति, सहस्रश इति ।