सहस्रशो मनोराज्ये वर्तमाने सदैव तत् । |
मनःकल्पितं वस्तुजातमिव नामरूपे निरसनीये इति भावः ॥ ९५॥
तमेवार्थप्रग्रंचयति, क्षण इति ।
क्षणे क्षणे मनोराज्यं भवत्येवान्यथाऽन्यथा । |
मनोराज्यं अन्तःसंभावितं मनोरथकल्पितवस्तुजातं क्षणे क्षणे प्रतिक्षणं अन्यथाऽन्यथा भवत्येव । उपद्यते विलीयते च। गतं गतमेव पुनर्नास्ति। बहिव्र्यवहारोऽपि तयैव भवति । जाग्रत्यामव्यतिरिक्तानि वस्तून्युपद्यन्ते विन श्यन्ति चेति भावः ॥ ९६ ॥
गतं गतं पुनर्नास्तीति पूर्वोक्तं विवृणोति, नेति ।
न बाल्यं यौवने लब्धं यौवनं स्थाविरे तथा । |
स्पष्टोऽर्थः । स्थाविरं वार्धक्यं ॥ ९७॥
लौकिकस्य मनोराज्यादविशेषमाह, मन इति ।
मनोराज्याद्विशेषः कः ? क्षणध्वंसिनि लैौकिके ॥९७॥ |
क्षणध्वंसिनि अतिस्वल्पकाले नाशनशीले स्पष्टमन्यत् ॥ ९७ ॥
एवं यौकिकव्यवहारस्य क्षणभंगुरत्वसाधने प्रयोजनमाह, अत इति ।
अतोऽस्मिन् भासमानेऽपि तत्सत्यत्वधियं त्यजेत् ॥९८॥ |
अतः अस्मिन् द्वैते जगति सत्यमिव भासमाने प्रतीयमानेऽपि तत्सत्यत्व धियं तस्य द्वैतस्य सत्यत्वबुद्धिं त्यजेत् ॥ ९८ ॥
द्वैतसत्यत्वधीपरित्यागे प्रयोजनमाह, उपेक्षित इति ।