उपेक्षिते लौकिके धीर्निर्विघ्ना ब्रह्मचिन्तने । |
लैौकिके द्वैते उपेक्षिते सति ब्रह्मचिन्तने धीर्निर्विघ्ना निरातंका भवति । अपेतचितविक्षेपत्वात् ब्रह्मणि चितैकाग्रयं भवतीति भावः । ननु तथा सति ब्रह्म निष्ठस्य लौकिकव्यवहारो न स्यादित्याशंक्याह, नटवदिति। नटवत् रामादिवेषधारी नट इव कृतिं तत्तत्पात्रोचितकार्यानुकरणं आस्थाय निर्वहति । सथा ज्ञानी लौकिकं व्यवहारं निर्वहत्येव । पात्रोचितशोकमोहादिकमभिनयन्नपि नटः स्वयं न तेन लिप्यते । तथैव ब्रह्मनुसंधानसन्निविष्टचितो ज्ञानी कृत्रिमत्वेन निश्चितमपि लोक व्यवहारं करोति । नटवत् कृतिमास्थायेत्यत्र “कृत्रिमास्थायामिति पाठः प्रचुरः। कृत्रिमा च सा आस्था व्यवसायः तस्यां लौकिकं निर्दहत्येवेत्यत्र पदयोजना। मिथ्याव्यवसायी भूत्वेत्यर्थः । प्रथमः पाठ एव साधोयानित्यत्र गृह्यते । यथा चेषघारी पात्रोचितशोकमोहादिकार्यमनुकरोति तथा ब्रह्मज्ञान्यप्यज्ञान्यनुकरणमवलंब्य व्यवहारं निर्वहतीत्यर्थः ॥९९॥
एवं ज्ञानिनो व्यवहारांगीकारे प्रसक्त विकारित्वं परिहरति, प्रवहत्यपीति ।
प्रवहत्यपि नीरेऽधः स्थिरा प्रौढशिला यथा । |
उपरि नीरे प्रवहत्यपि अधः प्रौढशिला अकंपनीया यथा स्थिरा तथा नामरूपान्यथात्वेऽपि ठपर्यारोपितानां नामरूपाणामन्यथात्वेऽपि विकारस्वरूपत्वेऽपि कूटस्थं अधिष्ठानभूतं कूटमिव स्थैर्यमापन्ने ब्रह्मा अन्यथा विकारवान्न भवति । बहि- र्दृश्यमानचांचल्यादिकं यथा जलस्यैव न तु तदन्तर्गतशिलायास्तथा विकारस्सवोऽपि बुद्धेरेव न तु तत्स्थस्य ब्रह्मण इति भावः ।। १०० ॥
नामरूपावगमनाय ब्रह्मावगतिरवश्या ।
मिथ्याभूतमिदं जगदखंडे ब्रह्मणि कथं प्रतीयत इत्याशंक्याह निश्छिद्र इति ।
निश्छिद्रे दर्पणे भाति वस्तुगर्भ बृहद्वियत् । |