पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/५८४

एतत् पृष्ठम् परिष्कृतम् अस्ति
५५२
[ब्रह्मनंदे अद्वैतानंद
पञ्चदशी

सच्चिद्घने तथा। नानाजगद्गर्भमिदं वियत् ॥ १०१॥

 यथा निश्छिद्रे अत्रकाशरहिते दर्पणे वस्तुगर्भ बहूनि वस्तूनि गर्भे यस्य सन्ति तत् बृहत् वियत् भाति प्रतिबिंबतया प्रतीयते तथा नानाजगद्गर्भ अनेकानि जगन्ति यस्य गर्भे सन्ति तदिदं वियत् सचिद्धने सचिवरूपे परे ब्रह्मणि भाति आरोपितत्वेनावभासते । परे ब्रह्मणि निश्छिद्रवसूचको घनशब्दः। निबिडीकृतरसघने सांद्रानन्दस्वरूपे परे ब्रह्मणि वस्त्वन्तरस्यान्तःप्रवेशो वस्तुतो नास्तीति भावः ॥१०१॥

 यथा प्रतिबिंबस्य दर्शनाय दर्पणं दृश्यते तथैव नामरूपयोरवगमनाय सच्चिदानन्दस्वरूपमवश्यमवेक्षणीयमित्याह, अदृष्टेति ।

अदृष्ट्वा दर्पणं नैव तदन्तस्थेक्षणं तथा।
अमत्वा सच्चिदानन्दं नामरूपमतिः कुतः ॥ १०२ ॥

 दर्पणमदृष्ट्वा तदंतस्थेक्षणं तस्यान्तःस्थितस्य प्रतिबिबस्येक्षणं नैव संभवति। तथा सच्चिदानन्दं परं ब्रह्म अमत्वा नामरूपमतिः तयोर्ज्ञानं कुतः सिध्यति ? ॥१०२

 ननु नामरूपयोः प्रतीतयोः सत्योः कथं निर्विषयब्रह्मावगतिरित्याशंक्याह प्रथममिति ।

प्रथमं सच्चिदानन्दे भासमानेऽथ तावता ।
बुद्धिं नियम्य नैवोध्र्वं धारयेन्नामरूपयोः ॥ १०३ ॥

 प्रथमं सच्चिदानन्दे ब्रह्मणि भासमाने सति अथ पश्चात् तावता तावन्मा त्रेण बुद्धिं नियम्य तत ऊर्ध्र्व तस्मिन् कल्पितयोर्नामरूपयोर्नैव बुद्धिं धारयेत् । कल्पितनामरूपात्मके प्रपंचे सच्चिदानन्दमात्रं बुद्ध्वा गृहीत्वा नामरूपयोर्बुद्धि न धारयेदित्यर्थः ॥ १०३ ॥

प्रकरणस्य फलकथनम् ।

 एवं कृते सर्वद्वैतनाश इत्याह, एवमिति ।

एवं च निर्जगद्ब्रह्म सच्चिदानन्दलक्षणम् ।
अद्वैतानन्द एतस्मिन् विश्राम्यन्तु जनाश्विरम् ॥१०२॥