पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/५८५

एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम् ॥१३॥ ]
५५३
कल्याणपीयूषव्याख्यासमेता

 एवं च सञ्चिदानन्दलक्षणं परं ब्रह्म निर्जगत् जगतो निर्गतं अपास्तद्वैत. मित्यर्थः । एतस्मिन् अद्वैतानन्दे जनाः मुमुक्षुवः चिरं विश्राम्यंतु संसारविश्रान्ति लक्षणमोक्षमुखमनुभवन्तु ॥ १०४ ॥

 प्रकरणमुपसंहरति, ब्रहृ्मेति ।

ब्रह्मानन्दाभिधे ग्रन्थे तृतीयोऽध्याय ईरितः ।
अद्वैतानन्द एव स्याज्जगन्मिथ्यात्वचिन्तया ॥ १०५ ॥

 ब्रह्मानन्दाभिधे ग्रन्थे तृतीयोध्यायः ईरितः। जगन्मिथ्यात्वचिन्तया समस्तद्वैते ध्वस्ते सति अद्वैतानन्द एव निष्प्रपंचपरिपूर्णानन्द एव । स्यात् चित्त- वृत्तौ भाति ॥ १०५ ॥

इति

श्रीमत्परमहंसपरिव्राजकाचार्यङ्गेरीश्रीविरूपाक्षश्रीविद्याशङ्करपद्मावेशप्रकाशित

जगद्गुरु श्रीकल्याणानन्दभारतीमान्ताचार्यात्यन्तप्रियान्तवासिनात्रि

गोत्रसमुद्धृतेन लिड्गन सोमयाजिना विरचितेयं पञ्चदश्यां

ब्रह्मानंदे अद्वैतानंदाख्यप्रकरणस्य कल्याणपीयूषव्याख्या समाप्ता ॥

इति ब्रह्मानंदे अद्वैतानंदाख्यप्रकरणम् ।