पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/५८८

एतत् पृष्ठम् परिष्कृतम् अस्ति
५५६
[ब्रह्मनंदे विद्यानंद
पञ्चदशी

ज्वरास्त्रिषु शरीरेषु स्थिता नत्वात्मनो ज्वराः ॥ ८॥

 स्पष्टोऽर्थः । अत्र सप्तमप्रकरणे २२२-२२७ श्लोकाः समीक्षितव्याः ॥८॥

 शरीरत्रयानुरूपान् ज्वरानाह, व्याधय इति ।

व्याधयो धातुवैषम्ये स्थूलदेहे स्थिता ज्वराः ।
कामक्रोधादयः सूक्ष्मे द्वयोर्बीजं तु कारणम् ॥९॥

 स्पष्टोऽर्थः । द्वयोर्याधिक्रोधाद्योबीजं तु कारणं शरीरम् ॥९॥

 आत्मानं चेद्विजानीयादि"ति श्रुतेस्तात्पर्यविवरणद्वारा उक्तमर्थं । स्पष्टयति, अद्वैतेति ।

अद्वैतानन्दमार्गेण परात्मनि विवेचितेे ।
अपश्यन् वास्तवं भोग्यं किं नामेच्छेत्परात्मवित्॥१०॥

 जीवेश्वरौ मायाकल्पितौ आत्माभिन्नः परमात्पेत्याकारकाद्वैतानन्दमार्गेण। स्पष्टमन्यत् ॥१०।।

 आत्मानन्दप्रकरणोक्तरीत्या जीवात्मनोर्यथार्थस्वरूपे निश्चिते सति भोक्त्र भावाच्छरीरसन्तापाभाव इत्याह, आत्मेति ।

आत्मानन्दोक्तरीत्याऽस्मिन् जीवात्मन्यवधारिते ।
भोक्ता नैवास्ति कोऽप्यत्र शरीरे तु ज्वरः कुतः ॥ ११॥

 आत्मानन्दोक्तरीत्या १२ प्रकरणे १२-५७ श्लोकेषु स्पष्टमन्यत् ॥ ११॥

ज्ञानिनः आमुष्मिकदुःखाभावकथनम् ।

 अथामुष्मिकज्वरस्य मिथ्यात्वमभिधत्ते, पुण्येति ।

पुण्यपापद्वये चिन्ता दुःखमामुष्मिकं भवेत् ।
प्रथमाध्याय एवोक्तं चिन्ता नैनं तपेदिति ॥ १२॥

 "किमहं साधु नाकरवम् । किमहं पापमकरवभि" (तै. २९त्याकारिका चिन्ता प्रथमाध्याये एकादशप्रकरणे पञ्चमे श्लोके । स्पष्टमन्यत् ।। १३॥