अस्मिन् कल्पे मनुष्यः सन् पुण्यपाकविशेषतः । |
अस्मिन् कल्पे वर्तमाने कल्पे यो मनुष्यस्सन् प्रथमं मनुष्यो भूत्वा पुण्यपाकविशेषतः मुकृतपरिपाकविशेषात् मनुष्यदेहानन्तरं गंधर्वत्वं समाप्नोति । सः मर्त्यगंधर्व इत्युच्यते ॥ २८ ॥
संत्यन्ये ये पूर्वकल्पकृतपुण्यपरिपाकविशेषात्तत्कल्पादावेव गंधर्वत्वमाप न्नास्ते देवगंधर्वा इत्याह,पूर्वेति ।
पूर्वकल्पे कृतापुण्यात्कल्पादावेव चेद्भवेत् । |
पूर्वकल्पे कृतात् पुण्यात् कल्पादावेव गंधर्वेत्वं भवेच्चेत् गंधर्वयोनौ जन्म यदि भवेत् । अत्र अस्मिन् लोके तादृशो देवगंधर्वः इत्युच्यते ॥२९॥
देवगंधर्वानन्दाधिक्यप्रदर्शनाय पितृदेवान् संकीर्तयति, अग्नीति ।
अग्निष्वात्तादयोः लोके पितरश्चिरवासिनः । |
अग्निष्वात्तादयो ये पितरः पैितृदेवताः पितृणां लोके चंद्रमंडलोपरि स्थिते चिरवासिनः ते कल्पादावेव देवत्वं देवभावं गताः । ते आजानदेवताः आजानः देवलोकः । तस्मिन् या देवताः ताः । द्विविधा देवाः । कर्मदेवा आजानदेवा इति । एतस्कपीयकर्मफलेनास्मिन्नेव कल्पे जन्मान्तरे देवत्वं प्राप्ताः कर्मदेवाः । पूर्वकल्प कृतकर्मफलेन सृष्ट्यादावेव देवयोनावुत्पन्ना आजनदेवाः। एते कर्मदेवेभ्यः श्रेष्ठाः ॥ ३० ॥
कर्मदेवतात्वं विवृणोति, अस्मिन्निति ।
अस्मिन् कल्पेऽश्वमेधादि कर्म कृत्वा महत्पदम् । |