पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/६

पुटमेतत् सुपुष्टितम्

संभवात्तानि नात्मीभवितुमर्हन्ति । चार्वाकानामप्यनुमानप्रमाणानुरोधि-व्यवहारदर्शनेनानुप्रामाण्यापलपनं परिहासास्पदमित्यभिप्रेत्यानुमान-प्रामाण्यमभ्युपगच्छन्ति ।

 तेषु माध्यमिका:। “शून्यमेव तत्त्वम् । सर्वोऽपि लोकव्यवहार आरोपमूलक एव । नेदं रजतमिति बाधानुरोधेन रजतांशस्यारोपितत्वेनासत्यत्ववदिदमंशस्या- प्यारोपितत्वेनासत्यत्वमेवास्तु । विशिष्टनिषेधेन तत्रापि बाधसंभवात् । लोकव्यवहारस्यारोपमूलकत्वमभ्युपगच्छन्ति वेदान्तिनोऽपि । परं तु निरधिष्ठानारोपस्यासंभवादधिष्ठानस्य सत्यत्वमभ्युपगच्छन्ति ते । तत्तु न युज्यते । “न मया दृष्टमिदं रजतमि"ति स्वप्ने जागरणे च विशिष्टनिषेधस्यानुभूयमानत्वात् । यदि दृष्टं सद्द्रूपं तदा तद्विशिष्टस्य दर्शनस्येदंताया अधिष्ठानस्य तस्मिन्नध्यस्तस्य रजतादेस्तत्संबद्धस्य समवायादेश्च सत्त्वं प्रसज्येत । अध्यस्तरजतादेस्सत्त्वं न तैरप्यभ्युपेयते । तस्यास- त्त्वांगीकारेऽर्थजरतीयस्यानौचित्येन शून्यवाद एव पर्यवसानं स्यात् । ततश्व सदस- दुभयानुभयात्मककोटिचतुष्टयविनिर्मुक्तं शून्यमेव तत्वम् । यदि घटादेस्सत्त्वमसत्वं वा स्वभावस्तदा कारकव्यापारवैयर्थ्यम् । लोकव्यवहारस्तु स्वप्नव्यवहारवदविद्ययोप पादनीयः । अत एव शून्य्म् शून्यमित्युपदिष्टमाचार्येण बुद्धेन । एवं तत्त्वे विविक्ते न किंचिदवशिष्यत इति स एव मोक्ष इति वर्णयन्ति ।

 योगाचारास्तु । बुद्धोपदिष्टं शून्यत्वं बाह्यार्थस्यैव न तु विज्ञानस्य । लोकेऽपि निरधिष्ठानारोपस्यादृष्टचरत्वात् । अतो विज्ञानमेवात्मा। तच्चाल्यविज्ञानम् प्रवृत्तिविज्ञानं चेति द्विविधम् । तत्रालयविज्ञानम् अहमित्याकारकम् । तच्चानादि वासनावशादनेकाकारमवभासते । तत्तदाकारेणावभासमानं विज्ञानमेव प्रवृत्तिविज्ञानमित्युच्यते । लोकानां तत एव प्रवृत्तेः । तच्च विज्ञानं क्षणिकम् । सर्वं सत् क्षणिकम् । जलधरपटलवत् । इत्यनुमानात् । तस्य चार्थक्रियाकारित्वात्सत्वं । अत एवोपदिष्टम् । "क्षणिकं क्षणिक"मिति । सर्वं क्षणिकमित्यादिभावनोत्कर्षेण निखिलवासनाविलये सति विगलितविषयाकारं क्षणिकं शुद्धविज्ञानम् धारारूपेणावतिष्ठते । स एव मोक्ष इत्युच्यते । एवं च क्षणिकविज्ञानमेवात्मा । मृगमदवासनाया वसन इव पूर्वपूर्वविज्ञानगतवासनाया उत्तरोत्तरविज्ञाने संक्रमणेन न स्मरणानुपपत्तिरित्यादि वदन्ति ।