तदुपाधिभूतान्तःकरणवृत्तीनां विभागप्रदर्शनपूर्वकं स्वरूपमाह, शान्तेति ।
शान्ता घोरास्तथा मूढा मनसो वृत्तयस्त्रिधा । |
मनसो वृत्तयः शान्ताः सात्विकाः, घोरा राजसाः, तथा मूढाः तामसा इति त्रिधा भवन्ति । तत्रैकैकस्योदाहरणान्याह, वैराग्यमिति । वैराग्यं, क्षान्तिः विवेकेन दुःखसहिष्णुता, औदार्य इत्याद्याः शान्तवृत्तयः। तृष्णा विषयाभिलाषः स्नेहः चेतनविषयं प्रेम, रागलोभौ रागः उत्कटेच्छा, लोभः वित्तलालस्यं, इत्याद्याः घोरवृत्तयः। सम्मोहः विस्मृतिः, भयमित्याद्या मूढवृत्तयः इति कथिताः ॥४॥
सर्ववृत्तिषु चिदूपप्रतिबिम्बनोक्तिः ।
एवं भिन्नासु वृत्तिषु ब्रह्मणश्चैतन्यरूपत्वं भासत इत्याहवृतिष्विति ।
वृत्तिष्वेतासु सर्वासु ब्रह्मणश्चित्स्वभावता । |
पूर्वार्धः स्पष्टः। तत्र शान्तासु वृतिषु विशेषमाह शान्ताविति शान्तासु सुखं च ब्रह्मण आनन्दरूपं च प्रतिबिम्बति चकारारसद्रूपत्वंचिद्रूपत्वे समुच्चीयेते ॥५॥
उक्तार्थे प्रमाणमाह, रूपमिति ।
रूपं रूपं बभूवासौ प्रतिरूप इति श्रुतिः । |
असौ परमात्मा । रूपं रूपं प्रतिरूपो बभूवेति” (कठ, २. ५. १०) श्रुतिरवोचत् । “अत एव चोपमा सूर्यकादिवत्’ (३२.१८) इति सूत्रे सूर्यकेत्याद्युपमा इति सूत्रकृत् सूत्रकारो व्यासमहर्षिः सूत्रयामास सूत्रं निबबंध। अस्य पुत्रस्यायमर्थः । यतोऽयमात्मा निर्विशेषः अस एवास्योपाधिकृतं बहुरूपत्वमस