शान्ता घोराः शिलाद्याश्च भेदकोपाधयो मताः। |
शान्ता घोरा धीवृत्तयः शिलाद्याश्च मताः अंगीकृताः भेदकोपाधयः। केनोपायेन ते परिह्रियन्ते इत्यत आह योगादिति, योगात् योगानन्दप्रकरणे यथा विवृतं तथा वा आत्मानमनात्मभिः विवेकतो वा विवेचनाद्वा एषामुपाधीनां अपाकृतिः भवति । केचित्त्वस्मिन् लोके च । शब्दोऽनुक्तसमुच्चायकः । तेन त्रिपुटोसंग्रहः । तस्याः नाशे ऐकरूप्येण भानं ब्रह्मविद्यायामिति ध्यानतो वैलक्षण्यं, अयमाशयः उत्तरश्लोकस्वारस्यादवगम्यत इत्याहुः ॥ ३२ ॥
उपाधीनामपाकरणे भूमानन्दावाप्तिरित्याह, निरुपाधीति ।
निरुपाधिब्रह्मतत्वे भासमाने स्वयंप्रभे । |
स्वयंप्रभे भासमाने निरुपाधिब्रह्मतत्वे अद्वैते परे ब्रह्मणि त्रिपुटी ज्ञातृ ज्ञानज्ञेयरूपा नस्ति । अतो भूमानन्द इति उच्यते ॥ ३३ ॥
प्रकरणमुपसंहरति, ब्रह्मानंदेति ।
ब्रह्मानन्दाभिधे ग्रन्थे पञ्चमोऽध्याय ईरितः । |
स्पष्टः पूर्वार्धः । प्रकरणादौ यत्प्रतिज्ञातं हारभूतत्वं विषयानन्दस्य तदे वोपसंहरति । एतेनेति पंचकोशप्रकारप्रविवेचनेन गुह्यान्तःपरिवेष्टितस्य प्रत्यग भिन्नपरब्रह्मसार्वभौमस्य साक्षात्कारार्थमेतेन विषयानन्दनामकेन सर्वजनसामान्येन अद्वैतरहस्यदुर्गबाह्यद्वारेण अन्तःप्रविश्यतामिति भावः ॥ ३१ ॥
मुमुक्षणामनुजिघृक्षया पारीप्सितस्यास्य महतो ग्रन्थस्योपक्रम इवोप संहारे मंगलाचरणमारचयन् प्रत्यगभिन्नपरमात्माभिधेयस्य स्वेक्षणापरिकल्पित जगदुत्पत्तिस्थितिलयाधिकृतहरिहराद्यनेकाकारमाविष्टस्य परमेश्वरस्य पादपं- कजयोनिजां कृतिमर्पयति, प्रीयादिति ।