अक्षेष्वर्थार्पितेष्वेतद्गुणदोषविचारकम् । |
अक्षेष्विन्द्रियेष्वर्थार्पितेषु तत्तद्विषयैस्सह संयोजितेषु सत्स्वेतन्मनी गुणदोषविचारकं ये गुणदोषा विद्यन्ते तेषां विचारकं विचारणकर्तृ भवति । नेयं विचारणाशक्तिरात्मनः तस्य निर्विकारत्वात्, नाऽपीन्द्रियाणां तेषां केवलविषयग्रहणमात्रचरितार्थत्वात् । तथापीदं ग्राह्यभिदमग्राह्यमिति विचारणा। सार्वजनीना दृश्यते अतस्तदन्यथाऽनुपपत्त्या मन इत्यन्यदन्तरिन्द्रियमवश्यमभ्युपगन्तव्यमिति भावः । मनसो विकारवत्वे हेतुमाह । सत्त्वमेिति अस्य मनसः सत्त्वं रजस्तम इति गुणाः तै गुणैर्विक्रियते विकारमाप्नोति यतोऽस्य विगुणत्वम् ततोऽस्य विकारित्वमिति भावः ॥ १३ ॥
गुणत्रयजन्यविकारजातमाह वैराग्यमित्यादिना तमसोत्थिता इत्यन्तेन ।
वैराग्यं क्षान्तिरौदार्यमित्याद्यास्सत्त्वसम्भवाः । |
स्पष्टोऽर्थः । औदार्ये वितरणा आलस्यं विहितकर्माचरणेऽनुत्साहः तन्द्रा ईषन्निद्रा तमोवातकफोद्भवा ॥ १४ ॥
पुण्यपापोत्पत्तिक्रमः ।
विकाराणां फलमाह सात्त्विकैरिति ।
सात्विकैः पुण्यनिष्पत्तिः पापोत्पत्तिश्च राजसैः॥१५॥ |
सात्त्विकैः वैराग्यादिविकारैः पुण्यनिष्पत्तिः राजसैः कामादिविकारैः पापोत्पत्तिश्च भवति तामसैरालस्यादिविकारैरुभयं पुण्यपापे नोत्पद्येते । किन्तु वृथा आयुःक्षपणं आयुर्विनाशो भवेत्॥ १५ ॥