पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/७०

पुटमेतत् सुपुष्टितम्
४४
पञ्चदशी

सदन्तरं नास्तीति कथमुच्यत इत्याशंक्याह नामेति । नामरूपोपाधिभेदं विना नाम रूपमित्युपाधी तयोर्भेदं विना सतो भिदा भेदो नैव विद्यते। घटाकाशात्पटाकाशो भिन्न इति प्रतीतिविषयस्य भेदस्य विशेष्यभूते आकाशे भेदसांधकवैलक्षण्याभावादनुपपन्नस्य शिखी ध्वस्त इत्यादिप्रतीतिविषयीभूतस्य विशेष्यांशेऽनुपपन्नस्य ध्वंसस्य विशेषणीभूतशिखायां पर्यवसानवत् विलक्षणयोर्घटपटयोः पर्यवसानं बोध्यम् ॥ २४ ॥

 सतो विजातीयभेदमपि पूर्वोक्तदिशैव निरस्यति विजातीयेति।

विजातीयमसत्तत्तु न खल्वस्तीति गम्यते।
नास्यातः प्रतियोगित्वं विजातीयाद्भिदा कुतः ॥ २५ ॥

 सतो विजातीयमसदेव भवति तत्तु “ नास्तोत्यसदि"ति व्युत्पत्या नासदिति अविद्यमाममेवेति गम्यते खलु। अतो विजातीयादसद्रूपात् प्रतियोगित्वमस्य सतो न सम्भवति प्रतियोग्यभावे विजातीयाद्वस्तुनो भिदा भेदः कुतस्सम्पद्यते ? न सम्भवतीत्यर्थः ॥ २५ ॥

 उक्तार्थमेव दृढीकुर्वन् प्रसंगसंगत्या वैनाशिकमतनिरसनपूर्वकमाह, एकमिति ।

एकमेवाद्वितीयं सत्सिद्धमत्र तु केचन ।
विह्वला असदेवेदं पुरासीदित्यवर्णयन् ॥२६॥

 एवं सदूस्तु एकमेवाद्वितीयं स्वगतसजातीयविजातीयभेदरहितमिति सिद्धम् । तथाप्यत्रास्मिन् स्थले तु केचन वैनाशिकाः विह्वलाः सद्युक्तिपरिज्ञानशून्याः इदं जगन्नामरूपात्मकं पुरा सृष्टेः प्रागंसदेवासोदित्यवर्णयन् ॥२६॥

 तेषां विह्वलतायाः कारणं सदृष्टान्तमाह, मग्नस्येति ।

मग्नस्याब्धौ यथाक्षाणि विह्वलानि तथास्य धीः ।
अखंडैकरसं श्रुत्वा निष्प्रचास बिभेत्यतः ॥२७॥