४
भवामीति सर्वानुभवविरोधश्च प्रसज्येतेत्यादिदूषणमुत्पश्यंतः कंचन स्थायिनमात्मानमभ्युपगच्छंतः स्वसिद्धान्तमेवं वर्णयन्ति । “सर्वज्ञो जितरागादिदोषस्त्रैलोक्यपूजितः।
यथा स्थितार्थवादी च देवोऽर्हन् परमेश्वर” इति हेमचंद्रोपविष्टः अर्हन्नेव परमेश्वरः।
तदुपदिष्टमार्गो निश्श्रेयससाधनम् । स च मार्गः सम्यग्दर्शनं, सम्यक् ज्ञानं, सम्यक्
चारित्रं चेति त्रिप्रकारः। अर्हदुक्ते तत्त्वार्थे विपरीताभिनिवेशराहित्यरूपं श्रद्धानं
सम्यग्दर्शनम् । येन स्वभावेन जीवादयो व्यवस्थितास्तेन स्वभावेन मोहसंशय
राहित्येनावगमः सम्यक् ज्ञानम् । संसरणकर्मनाशाय प्रयतमानस्य श्रद्धधानस्य
ज्ञानवतः पापगमनकारणक्रियानिर्वृत्तिः सम्यकू चारित्त्रम् । तच्चाहिंसासूनृतास्तेय
ब्रह्मचर्यापरिग्रहरूपेण पंचविधम् । एतानि भाषितानि पंचमहाव्रतानि भवन्ति ।
तैर्मोक्षं साधयेत् । एतन्मते बोघात्मको जीवः । अबोधात्मकश्चाजीवः । तावेव
चिदचिदित्युचेते । तयोर्विवेकं कृत्वा अचिद्रूपं परित्यज्य चिद्रूपमुपादेयम् । अस्य
जीवस्यौपशमिकः क्षयिक इति द्वौ भावौ । कर्मणोऽनुदयप्राप्तिरूपे उपशमे सति
उत्पद्यमानो भावः औपशमिकः । यथा कालुष्यसंपादके पंके कतकादिसंबंधादधः
कृते जलस्य स्वच्छता । आर्हतत्तत्त्वानुसंधानेन रागादिपंकक्षालनेन कर्मनाशे सति
जायमानो नैर्मल्यापादको भावः क्षयिकः । यथा पंकात् पृथक्कृतस्य निर्मलस्य
स्फटिकादिभाजनगतस्य जलस्य स्वच्छता । उभयात्माभावो मिश्रः । यथा जलस्य
अर्थस्वच्छता । तस्य जीवस्य चैतन्यादिः पारिणामिकस्सहजो भावः। तदेव चैतन्यं
ज्ञानमित्युच्यते । ज्ञानादात्मा नात्यंतं भिन्नः । ज्ञानस्य जीवावस्थारूपत्वात् ।
नात्यंतमभिन्नः । अवस्थावस्थावतोः अस्येयमवस्थेति भेदेन लोके व्यवहारात् ।
अतो भिन्नाभिन्नात्मको जीवः । स एवात्मेत्युच्यते । स च जीवः सर्वशरीरावच्छेदेन
सुखदुखभोगदर्शनात् शरीरसमपरिमाणत्वेन मध्यमपरिमाणः । तच्च परिमाणं
गजादिदेहसंबंधे किंचिन्महद्भवति । मशकादिदेहसंबंधे सत्यल्पी भवति च जीवस्य
सावयत्वेनावयवानां मृदुलनिबिडसंयोगविशेषेण तूलराशेरिव परिमाणाल्पत्वाधिक्ये
न विरुध्येते । एवंविधस्य चिद्रूपस्य जीवस्य स्वरूपे अचितो विविच्य ज्ञाते
स्वरूपेणावस्थितिरूपो मोक्षः संपद्यत इति ।
रामानुजीयाः पुनः । आर्हतमते जीवस्य देहसमपरिमाणत्वांगीकारे योगबलादनेकदेहपरिग्राहकयोगिशरीरेषु प्रतिशरीरं जीवविच्छेदः प्रसज्येत । मनुष्यशरीर-