पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/९०

पुटमेतत् सुपुष्टितम्
६४
[महाभूतविवेक
पञ्चदशी

 वियत्सतोः स्वरूपज्ञानवासनायां प्रवृद्धायां बुवो ज्ञानी वियत्सत्यत्ववादिनं वियत्सत्यमिति वदन्तं पण्डितंमानिनं सन्मात्राबोधयुक्तं सस्यत्वेतरधर्मशून्यत्वे सति सत्यतया सद्वस्तुस्वरूपानभिज्ञं व दृष्ट्वा विस्मयते आश्चर्यमग्नो भवति।७६॥

वायोर्मिथ्यात्वविचारः ।

 एवं वियत्सतोर्विवेचनासरणिमनुसृत्यैव भूतान्तरविवेचनाऽपि कर्तव्येंत्याह, एवमिति ।

एवमाकाशमिथ्यात्वे सत्सत्यत्वे च वासिते ।
न्यायेनानेन वाय्वादेः सदूवस्तु प्रविविच्यताम् ॥ ७७॥

 सुगमा पदयोजना। कारणाकाशस्यासत्वे तत्कार्यभूतस्य वाय्वादेः सर्वस्यासत्यत्वं सर्वत्रानुस्यूतत्वात्सतः सत्यत्वं च सुगमं भवतीति भावः ॥ ७७ ॥

 यद्यपि वायुः सन् तेजः सदित्यादिप्रतीतिबलात् वाय्वादयो धर्मिणः सत्ता च तेषां धर्म इत्यायाति । तथा च धर्मिभूतानां वाय्वादीनां निराकरणे धर्मभूतस्य सतोऽपि निराकृतिः प्रसज्येत । किं च वाय्वादिषु सत्त्वमनुपपन्नम्। असद्भूताकाशकार्यत्वेनाकाश इव कारणवशात् सत्तासंक्रमस्य दुर्वचत्वात् । इत्याशंकां परिहर्तुमाह, सदिति ।

सद्वस्तुन्येकदेशस्या माया तत्त्रैकदेशगम् ।
वियत्तत्राप्येकदेशगतो वायुः प्रकल्पितः ॥ ७८॥

 सद्वस्तुनि माया एकदेशस्था । तत्र वियत् । मायायामेकदेशगम् । मायांशमात्र एवाकाशः । तस्य आद्यविकारस्वरूपत्वात् । तत्राकाशेऽप्येकदेशगतएकांशसंभूतो वायुः प्रकल्पितः । अत्र क्रमेण उत्तरोत्तरस्य पूर्वपूर्वैकदेशगतत्वोक्त्या यथा मायैकदेशगतं वियन्मायाद्वाराऽसत्कारणकं भवति तथा वियदेकदेशगतो वायुरपि तद्वारा तत्कारणको भवति । अत्र संबंधे साक्षात्वासाक्षात्वाभ्यां विवक्षिते। एवं च सत्कार्यत्वाविशेषात् वाय्वादीनामपि सत्वसंबम्घो निर्भाव एव । किं च लोके धर्मधर्मिभावस्य वैपरीत्येनाविद्वद्गोचरत्वेऽप्यधिकदेशवृतिः धर्मी, तदेकदेश-