पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/९९

पुटमेतत् सुपुष्टितम्
प्रकरणम्।]
७३
कल्याणपीयूषव्याख्यासमेता

 एषा यस्यां सर्वान् कामान् विहाय निःस्पृहो निर्ममो निरहंकारः पुमांश्च रति सा स्थितिः ब्राह्मी स्थितिः ब्रह्मणि भवा ब्राह्मो। सा स्थितिः । सर्वकर्म सन्यासपूर्विका ब्रह्मभावप्राप्तिरित्यर्थः । हे पार्थ एनां स्थितिं प्राप्य न विमुह्यति । न पुनर्द्वैतकृतव्यामोहं गच्छति । स विद्वानन्तकालेऽपि शरीरपतनसमयेऽस्यास्थित्वा ब्रह्मनिर्वाणं ब्रह्मनिर्वृतैि ऋच्छति गच्छति । किमुत ब्रह्मचर्यादेव संन्यस्य ब्रह्मण्यवस्थितस्येत्यपेः स्वारस्यम् ॥ १०३ ॥

 अन्तशब्दार्थ विकल्प्य विवृणोति, सदिति ।

सदद्वैतेऽनृते द्वैते यदन्योन्यैक्यवीक्षणम् ।
तस्यान्तकालस्तद्भेदबुद्धिरेव न चेतरः ॥ १०४ ॥

 सदद्वैते अनृते मिथ्यारूपे द्वैते चान्योन्यैक्यवीक्षणमन्योन्यस्यैकभावेन वीक्षणं सत्यानृतयोर्मिथुनीकरणमिति यत् तस्यान्तकालोऽवसानकालो नाम । तद्भेदबुद्धिरेव तयोरद्वैतद्रेतयोर्भेदबुद्धिर्विवेचनमेवान्तकाल इत्युच्यते । इतरः शरीरपतनकालो नान्तकालः । जीवन्मुक्तस्य प्राणानामनुत्क्रमणात् । “न तस्य प्राणा उत्क्रामन्ते। अत्रैव समविलीयन्ते” इति श्रुतेः (उ. ता.५. ) ॥१०४॥

 द्वितीयमर्थं विवृणोति, यद्वेति ।

यद्वाऽन्तकालः प्राणस्य वियोगोऽस्तु प्रसिद्धितः।
तस्मिन् कालेऽपि न भ्रान्तेर्गतायाः पुनरागमः॥१०५॥

 यद्वेति पक्षान्तरे । लोके प्रसिद्धितः प्राणस्य वियोगः शरीरपतनसमयो ऽन्तकालोऽस्तु । तस्मिन् कालेऽपि गतायाः भ्रान्तेः द्वैतबुद्धेः न पुनरागमः ॥ १०५ ॥

 ननु जीवन्मुक्तस्य व्यवहारादेरुपलभ्यमानत्वाच्चित्तवत्वनिश्चये ‘‘यान्ते मतिः सा गति"रित्युक्त्या प्राणवियोगकाले सति चित्तविकारे पुनभ्रान्तेरनुदयः कथं घटेत चित्तविकारावगमादित्यत आह, नीरोग इति ।

10