पृष्ठम्:वेदान्तसारः.djvu/२१

पुटमेतत् सुपुष्टितम्

उपोद्धातः

प्रणामं लक्ष्मणमुनिः प्रतिगृह्णातु मामकम् ।
प्रसाधयति यत्सूक्तिः स्वाधीनपतिकां श्रुतिम् ॥
लक्ष्मणमुनेः प्रसादादुद्धृतमदसीयसूक्त्तिदुग्धाब्धेः ।
अद्वैततत्त्वममृतं स्वदतां विज्ञानधनलीकः ॥

'ब्रह्मविदाप्नोति परम्' इति श्रुतिर्मुमुक्षूणामवधेयान् परतत्त्वहित- पुरुषार्थान् संक्षेपेणाह-~–परतत्त्वं ब्रह्म । तद्वेदनं हितम् तत्प्राप्तिः पुरुषार्थ इति | एवं संक्षेपेण नेिर्दिष्ठांस्तानेव किंचिद्वैिस्तरेण स्वयमेवाह - " सत्यं ज्ञानमनन्तं ब्रह्म । यो वेद् निहितं गुहायां परमे व्योमन् । सोऽश्नुते सर्वान् कामान् सह । ब्रह्मणा विपश्चिता" इति । निरुपाधिकसत्तायोगेि नित्यासंकुचितज्ञानैकाकारं त्रिविधपरिच्छेदरहितं च ब्रह्मेति ब्रह्मस्वरूपं वेिवृतम् । हृदयगुहानिहितत्वप्रकारकज्ञानपदेनोपासनं हितमित्युक्तम् ।

अप्राकृताकाशशब्र्दिते परमपदे समस्तकल्याणगुणविशिष्टपरब्रह्मानुभबः परम- पुरुषार्थ इतेि च विवृतम् । तथाहि- " सोऽश्नुते सर्वान् कामान् सह । ब्रह्मणl विपश्चिता " इत्यत्र परमे व्योमन्नित्यप्राकृताकाशशब्दितं परमपद- मुच्यते । अप्राकृतपरमपदाख्यस्थानविशेषप्राप्तिपूर्वकं परब्रह्मणस्तद्रुणानां च परिपूर्णानुभव एव पुरुषार्थ इत्युक्तं भवति | न च ब्रह्मणः परमपदाख्यस्थान- विशेषवर्तित्वे देशतः परिच्छिन्नत्वात् त्रिविधपरिच्छेदराहित्यप्रतिपादकेना- नन्तपदेन विशेधः शङ्क्यः । न हि वयं परमपदस्थत्ववचनात् ब्रह्मणो5न्यत्र स्थितिं व्यासेधामः, येन देशपरिच्छेदेन विरोधः स्यात्; किं तु " यो वेद्