पृष्ठम्:वेदान्तसारः.djvu/२३

पुटमेतत् सुपुष्टितम्

xxv

स्यादेतत्– तत्क्रतुन्यायो हि उपायदशायामनुसंहितानां धर्माया- मुपेयदशायामविनाभावं नियमयति, न त्वघिकधर्माणां तत्र बहिष्कारं वदति। यथोक्तमाचार्यपादैः-

"उपासितगुणादेर्या प्राप्तावप्यबहिष्किया ।
सा तत्क्रतुनयग्राह्या नाकारान्तरवर्जनम् ॥"

इतेि | अन्यथा विद्यावेिशेषप्रतिनियतकतिपयगुणवेिशेिष्टतयोपासने मोक्षे परिपूर्णब्रद्मानुभवो न स्यात् । परिपूर्णब्रह्मानुभवो हि 'सर्वान् कामान् सह ब्रह्मणा " इतेि समस्तगुणविशिष्टब्रह्मानुभवः प्रतेिपदितः | अतो निर्वेिशेष- ब्रह्मोपासनेऽपि फलदशायां ब्रह्मगुणानुभवो न विरुद्धः | यदपि प्रत्यगभिन्न- तयोपासने āह्नाानुभवः फलदशायां न युज्यत इति, तदपि न ; यतो ब्रह्मणः प्रत्यगभिन्नतयानुभव एव श्रुत्या प्रतिपाद्यते - ब्रह्मणा विपश्चितेति । तथाहि - ब्रह्यणेति न सहयोगे तृतीया, ब्रह्मपदस्य सहयोगाभावात् | सहेति पदं सर्वान् कामान् सहाश्नुते इत्यन्वयं प्राप्य सर्वेषां कामानां भोगे यौागपद्यं प्रतिपादयति । ब्रह्मणेत्यस्य ब्रह्मभूत इत्यर्थः । उपासकः स्वयं ब्रह्मभूतः सन् सर्वान् कामान् युगपत् अश्नुते, न तु संसारदशायामिय क्रमेणेति । अतो न दोषगन्ध इति ।

अत्रोच्यते – निर्विशेषब्रह्मोपासनेन फलदशायां गुणनुभवप्रतिपादने तत्क्रतुन्यायविरोधो दुरुद्धरः। आचार्यपादोक्तरीत्या विरोधपरिहारस्तु नात्र प्रक्रमते । उपासितगुणाविरुद्धाकारान्तरानुभवस्य संभवदुपपत्तिकत्वेऽपि तद्विरुद्धाकारानुभवोऽसंभावित एव । निर्विशेषत्वेन हि सविशेषत्वं विरुध्यते | यदपि ब्रह्मणेत्यस्य ब्रह्मभूत इति वेिवरणं, तत्र चिन्त्यते - ब्रह्मणेति तृतीयान्तपदस्य प्रथमान्ततया कथमर्थवर्णनमितेि । स्वरसप्राप्ता सहयोगे तृतीया तु परेित्यत्ता । ब्रह्मभूत इति विवरणशैलीनिरीक्षणे इत्थं भूतलक्षणे तृतीयात्राभिप्रेतेति