xxvi
प्रतीयते। सा त्वत्र न युज्यते। सा हि इत्थंभूतस्य लक्षणवाचकात् विधियते, यथा 'जटाभिस्तापसः ' इति । न त्वत्र तथा संभवः । प्रकृत्यादिभ्यस्तृतीया तु संबन्धसामान्ये' षष्ठ्यां प्राप्तायामारब्धेति प्रकृते तदभावान्न प्राप्नोति। अभेदाख्यः संबन्धस्तु नाङ्गीक्रियते। अन्यथा 'नीलमुत्पलम् ' इत्यादौ अभेदे संबन्धसामान्ये षष्ठीप्रसङ्गो दुर्वारः। वस्तुतस्तु प्रकृत्यादिभ्य उपसंख्यानां इति वार्तिकस्याकरे प्रत्याख्यातत्वात् तस्याः शङ्काया एवात्र नावसार बोध्यम्।
इत्थं वेदान्तोदितिषु तत्त्वहितपुरूषार्थेषु तैस्तैः कौतस्कुतैर्व्याकुलितेषु धर्मत्राणपरायणो भगवान् नारायणो बादरायणात्मनावतीर्य तत्त्वहितपुरूषार्थानौपनिषदान् यथावत् प्रतिष्ठापयितुं चतुर्लक्षणीं ब्रह्ममीमांसां प्रणिनाय । सैषा मीमांसा समन्वयाविरोधसाधनफलानि चतुर्भिरध्यायैः प्रतिपादयन्ती ब्रह्मावबोधे इतिकर्तव्यतात्वमापद्यते। यथाहुः-
" ज्ञायमाने तु वेदान्तैः करणैः परमात्मनि ।
इमामुत्तरमीमांसामितिकर्तव्यतां विदुः ॥ "
इति। शास्त्रस्यास्य विषयो ब्रह्म तदुपासनादयश्र्च । तन्निर्णयः फलम् । अत्र् ब्रह्मविदाप्नोति परम् इति श्रुतौ अथातो ब्रह्मजिज्ञासा इति शास्त्रारम्भे च ब्रह्मपदप्रयोगात् जिज्ञासितं ब्रह्म रूपरूपगुणविभवादिभिरपरिच्छिन्नमिति प्रतीयते। ब्रह्मशब्दो हि "बृह बृहि वृद्धौ" इति धातोर्निष्पन्नो ब्रह्मणः स्वरूपतो गुणतश्च निरतिशयबृहत्त्वमाह । तथा च निर्वचनम्- "कस्मादुच्यते ब्रह्म ? बृहन्तो ह्यस्मिन् गुणाः " ; " बृहति बृंहयति तस्मादुच्यते परं ब्रह्म " ; "बृहत्त्वात् बृंहणत्वाच्च तद् ब्रह्मेत्यभिधीयते " इति ।
निदिध्यासितं ब्रह्म विस्तरशो निरूपयितुं प्रवृत्ता भगवती श्रुतिः " सदेव सौम्येदमग्र आसीत्। एकमेवाद्वितीयम् " " ऐतदात्म्यमिदं सर्वम् "