पृष्ठम्:वेदान्तसारः.djvu/२५

पुटमेतत् सुपुष्टितम्

xxvii

"इदं सर्वे यदयमात्मा" "नेह नानास्ति किंचन" इत्यादिवाक्यैर्ब्रह्मणः सत्त्वम् एकत्म् अद्वितीयत्वं चाभिधाय सर्वे चराचरात्मकं जगत् ब्रह्मरूपमिति बोधयन्ती ब्रह्मणः पृथक् नानाभूतं जगत् नास्तीति निषेधति । एवं "निष्कलं निष्क्रियं शान्तं निरवद्यं निरञ्जनम्" "निर्गुणम्" इत्यादिकाः श्रुतयों ब्रह्मणो निरवयक्त्वं निष्क्रियत्वं निर्गुणत्वं च प्रतिपादृयन्ति । एवं श्रुतिषु ब्रह्मभिन्नस्य जगतो नास्तित्वप्रतिपादनात् ब्रह्मणो निर्गुणत्वनिष्क्रियत्वादिप्रतिपादनाञ्च ब्रह्म निर्विशेषमिति प्रतीयते | ऐतदात्म्यं च जगतः प्रतिपाद्यमानं जगतो निषेधे पर्यवस्यति, यथा 'रज्ज्वात्मकः सर्पः, शुक्त्यात्मकं रजतम्' इत्यत्र रज्जुतादात्म्यं शुक्तितादात्म्यं च सर्परजतयोरुच्यमानं सर्परजतयोर्निंषेधे पर्यवस्यति । यथा *रज्ज्वात्मकः सर्पः, शुक्त्यात्मकं रजतम्* इत्यत्र रज्जुतादात्म्यं शुक्तितादात्म्यं च सर्परजतयोरूच्यमानं सर्परजतयोर्निषेधे पर्यवसति । अतश्च " एकमेवाद्वितीयम्" इति श्रुतमेकत्वमद्वितीयत्वं च निर्वेिशेषब्रह्मण इत्यापाततः प्रतीयते परं तु "यः सर्वज्ञः सर्ववित् यस्य ज्ञानमयं तपः" "सत्यकामः सत्यसंकंल्प:" "परास्य शक्तिर्विर्विधैव श्रूयते स्वाभाविकी ज्ञानबलक्रिया च" इत्यादेिभिः श्रुतिभिः तेजोबलैश्वर्यमहृावबोधसुवीर्यशक्त्यादिगुणैकराशिः" "तवानन्तगुणस्यापि षडेव प्रथमे गुणाः" इत्यादिभिरुपबृंहणैश्च ब्रह्मणः सविशेषत्वावगमात् पूर्वोक्तमेकत्वमद्वितीयत्वं च सविशेषब्रह्मण इत्यवगम्यते | अतश्चाद्वैतं नेिर्विशेषाद्वैतं सविशेषाद्वैतमित्यद्वैत एव द्वैतं संपन्नमेिति महदेिदं वैचित्र्यम् ।

तत्र श्रुतिभिः किं निर्विशेषब्रह्माद्वैतं प्रतिपाद्यते, उत सविशेषब्रह्माद्वैतमितीदानीं विचारस्यावसरः | तत्र श्रुतीनां सवेिशेषब्रह्माद्वैत एव तात्पर्ये, न निर्विशेषब्रह्माद्वैत इति प्रतीयते । तथाहि वेदान्ताः चित्तत्वम्, अचित्तत्वं ब्रह्मतत्त्वं चेति तत्त्वत्रयं मुक्तकण्ठं निर्दिश्य तेषां तत्त्वानां परश्यरवैलक्षण्यं एरस्परसंबन्धं च विशदयन्ति । अतो ब्रह्मतत्त्वमिव चिदचित्तत्त्वे अपि न केनाप्यपह्नोतुं शक्येते । तधा तत्त्वत्रयस्य परस्यरसंबन्धोऽप्यबाधितप्रमाणसिद्धत्वान्नापह्णवार्हः । श्वेताश्वतरोपनिषदेि---