पृष्ठम्:वेदान्तसारः.djvu/२६२

पुटमेतत् सुपुष्टितम्

२२४ वेदान्तसारः [अधि,

नैवम्,

गौण्यसंभवात् तत्प्राक्छ्रुतेश्च1 ॥ २ ॥

तस्य परमात्मन एव सृष्टेः प्रागवस्थानश्रुतेः ऋषिशब्दः प्राणशब्दश्च परमात्मन्येव | 2बहुत्वासंभवाद्बहुवचनश्रुतिर्गौणी ॥

non-being). The Pranas were those sages ' satapatha-Bra (Madhya), (kanda VI. Prapa. I.' Hymn. I).

It is not so.

2. Gouvnyasambhavat tatprakchrutesca

The plural number is to be considered in a secondary sense; because it cannot be in the primary sense and since the Highest Self alone is declared to have an existence before the creation.

There are scriptural texts to show that the Highest Self alone was in existence before creation. The words' sages' and , ' Pranas ' refer to the Highest Self only. Because He cannot be designated with a word in plural number, in the scriptural statement the plural number is to be considered as used instead of the singular number in a secondary sense.

इति । प्राणा वा ऋषयस्ते यत्पुरास्मात्सर्वस्मादिदमिच्छ्न्तः श्रमेण तप सारिषंस्तस्मादृषयः' इति । अत्र ऋषिशब्दार्थं श्रुतिः स्वयमेव विवृणोति- यदित्यादिना । सर्वस्मादस्मात्परिदृश्यमानाज्जगतः पुरा सृष्टेः पूर्वकाले इदं जगदिच्छ्न् श्रमेण तपसा, बहु स्यामिति संकल्परूपेणालोचनेन, आ रिषन् अजानात्, तस्मात् ऋषय इति । छान्दसत्वाद्व्यत्ययेनबहुवचनम् '। तप आलोचने' इति 'ऋषी गतौ' च धातुपाठः । गत्यर्थानां ज्ञानार्थ त्वादजानादित्यर्थ इति सायणः । 'ऋषिर्दर्शनात्' इति यास्कोप्याह । अत्र यदित्यादिवाक्यशेषानालोचनेन प्रणशब्दस्येन्द्रियवाचकत्वभ्रमेण च तेषामनुत्पत्तिशङ्का । सिद्धान्ते तु अत्रत्यप्राणशब्दस्य परमात्मवाचकत्वेने न्द्रियाणामनुत्पत्तिशङ्कानिरासः ।

1च omitted A 1. 2मुख्यत्वासंभवात् M 1.