पृष्ठम्:वेदान्तसारः.djvu/२८

पुटमेतत् सुपुष्टितम्

xxx

"द्वाविमौ पुरूषौ लोके क्षरश्चाक्षर एव च ।
क्षरः सर्वाणि भूतानि कूटस्थोऽक्षर उच्यते॥
उत्तमः पुरूषस्त्वन्यः परमात्मेत्युदाहृतः।
यो लोकत्रयमाविश्य बिभर्त्यव्यय ईश्वरः॥"

इति। अतः प्रमाणप्रतिपन्नत्वात् ईश्वरतत्त्वमिवं चिदचिदाख्यं तत्त्वद्वयमपि दुरपह्नवम्। एवं तेषां तत्त्वानां परस्परवैलक्षण्यस्यापि प्रमाणसिध्दत्वात् तेषां भेदोऽपि दुरपह्नवः ।

तथा-

"न तस्य कार्ये करणं च विद्यते न तत्समश्चाभ्यधिकश्च दृश्यते । ::: परास्य शक्तिर्विविधैव श्रूयते स्वाभाविकी ज्ञानबलक्रिया च ॥"

इत्यत्रेश्वरस्य स्वाभाविका ज्ञानाशक्तिबलैश्वर्यवीर्यतेजः प्रभृतयोऽनन्ता गुणाः श्रूयन्ते। तस्य "तमीश्वराणां परमं महेश्वरम्" इति पूर्वमन्त्रे निर्दीष्टस्य सर्वेश्वरस्य कार्ये शरीरं करणमिन्द्रियं च न विद्यते ; प्राकृतं शरीरं प्राकृतानीन्द्रियाणि च न सन्तीत्यर्थः । तथाचोक्तम्----- "न तस्य प्राकृता मूर्तिर्मोसमेदोऽस्थिसंभवा" "न भूतसंघसंस्थानो देहोऽस्य परमात्मानः" इति । तत्समः तदभ्यधिकश्च लोके कश्चिदपि न दृश्यते । अस्य शक्तिः ज्ञानबलाभ्यां सहिता सृष्टिसंहारादिलक्षणा क्रिया च परा इतरविलक्षणा विविधा बहुप्रकारा स्वाभाविकी अनौपाधिकी च श्रूयते ; श्रुतिषु बहुशः प्रतिपाद्यत इत्यर्थः। तथा


"एको देवः सर्वभूतेषु गूढः सर्वव्यापी सर्वभूतान्तरात्मा ।
कर्माध्यक्षः सर्वभूताधिवासः साक्षी चेता केवलो निर्गुणश्च॥"
स विश्वकृद्विश्वविदात्मयोनिर्ज्ञः कालकालो गुणी सर्वविद्यः ।
प्रधानक्षेत्रज्ञपतिर्गुणेशः संसारमोक्षस्थितिबन्धहेतुः॥"