पृष्ठम्:वेदान्तसारः.djvu/२९

पुटमेतत् सुपुष्टितम्

xxxi

स ईशः विश्वकृत् सर्वकर्ता । विश्ववित् सर्वे प्राप्तः।लाभार्थकोऽयं विदिः।अवाप्तसमस्तकाम इत्यर्थः। सर्वज्ञत्वस्य ज्ञत्यनुपदमेव वक्ष्यमाणत्वादयमेवात्रार्थः। आत्मयोनिः आत्मा जीवः योनीः स्थानं यस्य सः, जीवान्तर्यामीत्यर्थः स्वयंभूः, अज इति वा अर्थः। जानातीति ज्ञः; सर्वज्ञः इत्यर्थः "इगुपधज्ञाप्रीकिरः कः" इति कप्रत्ययः। कालकालः, कालस्यापि नियामकः। "कालं स पचते तत्र न कालस्तत्र् वै प्रभुः" इत्यादिकमनुसंधेयम्। गुणी ज्ञानशक्त्यादिकल्याणगुणपरिपूर्णः। सर्वविद्यः सर्वविद्या प्रवर्तकः। "यः सर्वज्ञः सर्ववित्" इत्युक्तरीत्या सर्वविदिति वा छेदः। प्रधानक्षेत्रज्ञयोः प्रकृतिजीवयोः चिदचितोः पतिः शेषी । गुणेशः ज्ञानशक्त्यादिभिः गुणैः सर्वमीष्टे इति गुणेशः । संसारस्य प्रकृतिसंबन्धलक्षणस्य मोक्षे तत्स्थितिरूपे बन्धे च हेतुरित्यर्थः । "अभीतिरिह यज्जुषां यदवधीरितानां भयम्" इत्युक्तरीत्या प्रपन्नानां मोक्षमितरेषां बन्धं च विदधातीत्यर्थः । अत्रापि भगवतोऽनन्ता गुणा उच्यन्ते।

तथोपबृंहणेष्वपि‌-----

समस्तकल्याणगुनात्मकोऽसौ स्वशक्तिलेशोद्धृतभूतवर्गः।
इच्छागृहीताभिमतोरूदेह्ः संसाधिताशेषजगद्धितोऽसौ॥
तेजोबलैश्वर्यमहावबोधसुवीर्यशक्त्यादिगुणैकराशिः।
परः पराणां सकला न यत्र क्लेशादयः सन्ति परावरेशे ॥"

इत्यादिषु परस्य ब्रह्मणो ज्ञानशक्त्यादयो गुणाः प्रतिपाद्यन्ते।

एवमनन्तकल्याणगुणमहोदधेः परस्य ब्रह्मणः चिदचितां च शरीरात्मभावेन संबन्धं प्रतिपादयन्ति श्रुतयः। तथाहि बृहदारण्यके ‌-- 'यः पृथिव्यां तिष्ठन्' इत्यारभ्य "यो विज्ञाने तिष्ठन् विज्ञानादन्तरो यं विज्ञानं न वेद यस्य विज्ञानं शरीरं यो विज्ञानमन्तरो यमयति स त अत्मान्तर्याम्यमृतः" इति । अत्र "यः पृथिव्यां तिष्ठन्" इत्यादिना अचेतनानां भगवदधिष्ठि