पृष्ठम्:वेदान्तसारः.djvu/३१

पुटमेतत् सुपुष्टितम्

xxxiii

एवं "तत्सृष्ठ्वा । तदेवानुप्राविशत् । तदनुप्रविश्य । सच्च त्यच्चाभवत्" इतेि जगत्सर्गपूर्वकं ब्रह्मणः सर्वत्र व्याप्त्या सर्वशरीरकत्वं श्रूयते । ननु सर्वदा सर्वव्याप्तस्य ब्रह्मणः कोऽसौ सर्गकालेऽनुप्रवेशो नामेति चेत्-- अत्राहुः---गोजठरगतवत्सवत् सर्वव्याप्तस्य ब्रह्मणः प्रत्येकं सर्ववस्तुषु पुष्कल- प्रतीत्यर्हस्थितिविशेष एवात्रानुप्रवेशः । अनेन " सत्यं ज्ञानमनन्तं ब्रह्म" इत्यपरिच्छिंन्नतयोक्तस्य ब्रह्मणः "यो वेद निहितं गुहायाम्" इत्यत्र हृदय- गुहानिहेितत्वोक्तिरप्युपपादिता भवति ।

तस्मात् श्रुत्यादिभिः प्रमाणैः प्रसिध्यत् परं ब्रह्म चिदचिच्छरीरकत्व- सर्वान्तर्यामित्वसत्यकामत्वसत्यसंकल्पत्वनिरतिशयषाड्गुण्यादेिविशेषवेिशिष्टमेव प्रसिध्यतीति सविशेषाद्वैतपराण्येव पूर्वोक्तवचनानि न निर्वेिशेषाद्वैतपराणीतेि विशिष्टाद्वैतैिनां सिद्धान्तः ।

एवं सवेिशेषब्रह्माद्वैताभिप्रायकत्वात् विशिष्टाद्वैतमिति व्यपदेशः । अयं भावः–ब्रह्मैकमेव तत्वमिति वैशिष्ट्याभिप्रायेण व्यपदेशः । निष्कर्षे तु तत्वत्रयमेवेतेि । शरीरशरीरिभावरूपं प्रतितन्त्रसिद्धान्तमवलम्ब्यभेदश्रुतयोऽभेदश्रुतयश्च सामञ्जस्येनोपपादयितुं शक्यन्ते | अन्यथा भेदश्रुतीनां काल्पनिकं भेदमादायोपपत्तिर्वर्णनीया | तथोपपत्तिवर्णनं तु तासां श्रुतीना- मप्रामाण्यकल्पनाकल्पमेिति वदन्ति ।

सिद्धान्तमिममवलम्ब्यैव भगवता भाष्यकृता ब्रह्मसूत्राणि वेदान्तसारे वेिवृतानि । अध्यायानां पादानां चार्थसंग्रहस्तु आङ्गलभाषोपोद्धाते तल्लेखकैः कृत इति विरम्यते ।

वे. कृष्णमाचार्यः