पृष्ठम्:वेदान्तसारः.djvu/४४३

एतत् पृष्ठम् परिष्कृतम् अस्ति
४०५
चतुर्थाध्याये चतुर्थ: पादः

"स यदि पितृलोककामः' इत्यादिनावगताः पित्रादय “ संकल्पा देवास्य ” इति श्रुतेः संकल्पादेव भवन्ति । यथा परमपुरुषस्य लीला प्रवृत्तस्य दशरथवसुदेवादयः स्वसंकल्पादेव भवन्ति, एवमेव परमपुरुष लीलान्तर्गतस्य मुक्तस्यापि तदुपकरणभूताः पित्रादयः स्वसंकल्पादेव भवन्तीत्यर्थः ।

अत एव चानन्याधिपतिः ॥ ९ ॥

अत एव “अपहतपाप्मा सत्यसंकल्पः' इत्यादिश्रुतेर्न कदापि

  • कर्माधीनोऽयम् ॥

The ancestors etc., that are mentioned in the scriptural text * should he desires to be with his ancestors' (Chand VIII-2-1) are present at his mere will according to the text ' By his mere will ' (Chand. VIII-2-1). The Highest Person, while in a sportive mood is born as the son of Dasaratha etc. Vasudev, by His mere will; In the same manner the released self, that is included in the sportive action of the Highest Person can have his ancestors in this world through his own will.

9.Ata eva cananyadhipatih

The clause * For the same reason ' means by the scriptural authorities viz., ' Freedom from sin, true will etc.' (Chand' VIII-7-1). The released self is not subject to Karman at any time.

  • ज्ञात्यादयः A 1, M 1, 2

मुक्तानामपीश्वराधीनत्वात् कथं तेषामनन्याधिपतित्वमित्याशङ्कायां न कर्माधीनो ऽयमित्युक्तमिति गम्यते । एवंच अनन्याधिपतिरित्यस्य ईश्वरादन्यः कर्मादिः अधि पतिः प्रेरको न यस्येत्यर्थः । न तु स्वस्मादन्य ईश्वरादिः प्रेरको नास्तीति ।