पृष्ठम्:वेदान्तसारः.djvu/४४४

एतत् पृष्ठम् परिष्कृतम् अस्ति
४०६
[अधि.
वेदान्तसारः

अभावाधिकरणम् ५

अभावं बादरिराह ह्येवम् ॥ १० ॥

तस्य देहेन्द्रियाद्युपकरणाभावं बादरिर्मेने । “न ह वै सशरीरस्य । इत्यादिर्हिं तदभावमाह ।

भावं जैमिनिर्विकल्पामननात् ॥ ११ ॥

  • स एकधा भवति' इत्यादिना देहेन्द्रियादिभिर्विविधताश्रुते

देहाद्युपकरणसद्भावं जैमिनिर्मेने ।

ABHAVADHIKARANA 5

10.Abhavam Badariraha hyevam

The absence of body, etc. Badari opined; for thus scripture says Badari opined that the Released souls do not have the instruments, such as body and sense-organs. It is because the text ' Verily there is no freedom from pleasure and pain for him while he is incorporate' (Chand.. VI11-12-1) declares thus

10.Bhavam Jaiminirvikalpamananti

The presence of body etc.Jaimini opines, because the text declares manifoldness. There are texts, such as, ' He is one-fold ' (Chand. VII 26-2) that prove that he becomes manifold with the help of अन्यशब्दार्थान्तर्गतभेदप्रतियोगी चेश्वरः, न तु मुक्तजीव इति भावः । अस्त्वेवं प्रकृते । स स्वराट् भवति' इति श्रुतेस्तर्हि कोऽर्थः ? स्वराट् इत्यत्र हि स्वयमेव राजेति भाषितं भाष्यकारैः । तथाच स्वस्मान्मुक्तात्मनोऽन्यस्येश्वरस्यापि नियन्तृत्वं निषिध्यत इति वेत्; न, सत्यसंकल्पत्वतात्पर्यकत्वात्तस्य । मुक्तात्मनो हि संकल्पः सर्वोऽपि न कदाचिदपि न केनापि व्याहन्यते । ईश्वरोऽप्यस्य संकल्पं न व्याहन्ति; यत ईश्वरानभिमतं संकल्पमयं कदापि न करोति ।