पृष्ठम्:वेदान्तसारः.djvu/५१

पुटमेतत् सुपुष्टितम्
२]
१३
प्रथमाध्यायै प्रथमः पादः

तथाच 'नात्मा श्रुतेर्नित्यत्वाच्च ताभ्यः' इति प्रत्यगात्मनो नित्य- त्वादनुत्पत्तिमुक्त्वा 'ज्ञोऽत एव' इति तस्य ज्ञातृत्वमेव स्वरूपमित्यु- क्तम् । 'उत्क्रान्तिगत्यागतीनाम्' इत्यादिना तस्याणुत्वं चोक्तम् । 'तद्गुण- सारत्वात्तु तद्वयपदेशः प्राज्ञवत् । यावदात्मभावित्वाच्च न दोषस्तद्दर्शनात्' इति ज्ञातुंरेवात्मनो ज्ञानशब्देन व्यपदेशो ज्ञानगुणसारत्वात् ज्ञानैकनि- रूपणीयस्वभावत्वाच्चेत्युक्तम् । 'नित्योपलब्ध्यनुपलब्धिप्रसङ्गोऽन्यतरनियमो वान्यथा' इति ज्ञानमात्रस्वरूपात्मवादे हेत्वन्तरायत्तज्ञानात्मवादे सर्व- गतात्मवादे च दोष उक्तः । 'कर्ता शास्त्रार्थवत्त्वात् | उपादानाद्विहारो- पदेशाच्च । व्यपदेशाच्च क्रियायां न चेन्निर्देशविपर्ययः । उपलब्धिवदनियमः| शक्तिविपर्ययात् । समाध्यभावाच्च | यथा च तक्षोभयथा | 'इत्यात्मन एव


That the self is eternal and not produced has been proved in Sutra II-3-18. That knowledge is the essential character- istic of the self has been proved in Sutra II-3-19. That the self is atomic in size has been proved in Sutra 11-3-20. The self, who is the knower, has been mentioned by the term knowledge; because he has knowledge, as his essential attribute and because also he has to be defined and investigated by the means of the attribute, knowledge. This has been stated in Sutras 11-3-29 & 30. In the Sutra 11-3-32 are stated the defects that arise in the schools that accept knowledge as the self, that accept the knowledge produced by other means as the self and that accept the self as being present everywhere. That the self is the doer of good and bad works and not Prakrti has been stated in Sutras 11.3.33 to 39.

1ज्ञानवादे A.1.