खण्डः ६] विद्वन्मनोरञ्जनी ८७ अतो नानयोर्लक्ष्यबहिर्भाव इति न लक्षणस्यातिव्याप्तिः । अव्याप्त्यसम्भव योस्तु’ शङ्कैव नास्ति ज्ञानेनाज्ञानबाधस्य प्रसिद्धत्वात् । न च पूर्वज्ञाने ज्ञान- प्रागभावे चातिव्याप्तिः। पूर्वज्ञानस्य ज्ञानापनोद्यत्वनियमाभावादिच्छादिवृत्य- न्तरोत्पत्त्यापि तदपनोददर्शनात् । इह च नियमेन ज्ञानापनोद्यस्याज्ञानत्वा भ्युपगमात् । प्रागभावस्य च प्रतियोग्युत्पत्तिमात्रविरोधिनस्तदपनोद्यत्वा- भावात् । न ह्यनुत्पन्नः प्रतियोगी कस्यचिदपनोदकः सम्भवति । अतो न तयोरतिव्याप्तिः ॥ नन्वज्ञानस्यापि ज्ञानोत्पत्तिनान्तरीयकतया विनाशाश्रयणात्कथं ज्ञाना पनोद्यत्वमिति चेन्न । ज्ञानोत्पत्त्यनन्तरं विलम्बाभावाभिप्रायेणाज्ञाननाशस्य ज्ञानोत्पत्तिनान्तरीयकतावाचोयुक्तेराश्रयणात् भावाभावयोस्तु क्षणमात्रमपि सहभावानुपपत्तेरित्यस्ति प्रागभावाद्वैषम्यमज्ञ।नस्येति । सदसद्भ्यामनिर्वाच्य मित्यपरं लक्षणम् । अत्रापि पूर्ववदेवाव्याप्त्यादिपरिहारो द्रष्टव्यः । नेदम- सम्भवि । अज्ञानस्य सत्त्वे चिदात्मवद्भधाभावप्रसङ्गात्। असत्त्वे च वन्ध्या सुतादिवदपरोक्षप्रतिभासानुपपत्तेः । बाधप्रतीत्योश्चाज्ञाने प्रसिद्धत्वाद्युक्तं तस्यानिर्वचनीयत्वम् । सदसत्त्वपक्षयोरुक्तदूषणमुपजीव्य मिथ्याज्ञानसंस्कारोऽ ज्ञानमसत्प्रकाशनशक्तित्वेनासद्वेति मतद्वयं निरसनीयम् । मिथ्याज्ञानमात्म गुणोऽज्ञानमिति पक्षे निरस्यति-त्रिगुणात्मकमिति । गुणा लोहितशुक्ल कृष्णा अज्ञानकार्येषु तेजोबन्नेष्ववान्तरप्रकृतिषु प्रसिद्धाः ‘यदग्ने रोहितं रूपं तेजसस्तदूपं यच्छुक्लं तदपां यत्कृष्णं तदन्नस्य’ इति श्रुतेः । तथा च कार्य गतत्रिरूपेण कारणमप्यज्ञानमव्याकृतात्मकं त्रिरूपेण त्रिगुणात्मकमिति यावत् । तथा च न्यायः—‘ज्योतिरुपक्रमात्तु तथा ह्यधीयत एके” इति । यद्वा रजःसत्त्वतमोलक्षणास्त्रयो गुणास्तद्युक्तमज्ञानं त्रिगुणात्मकमिति । गुण- गुणिनोरभेदविवक्षया त्रिगुणात्मकमित्युक्तम् । तथा च गुणस्य गुणवत्त्वानु पपत्तेर्न मिथ्याज्ञानमज्ञानमित्यर्थः। ज्ञानाभावोऽज्ञानमिति मतं निरस्यति भावरूपमिति । अयमर्थः । अभावप्रतियोगि यज्ज्ञानं तकि साक्षिचैतन्यं स्यात् “साक्षी चेता” इत्यादिश्रुतेस्तस्यापि ज्ञानत्वप्रसिद्धेः। किंवान्तःकरण- वृत्तिः ‘विज्ञानेन वा ऋग्वेदं विजानाति” इति विज्ञानशब्देन बुद्धेः श्रवणात्। अथवात्मगुणस्तथात्वेन च ज्ञानस्य वैशेषिकतन्ने प्रसिद्धत्वात् । तत्राद्यो नाभावप्रतियोगी तस्य नित्यत्वात् । द्वितीये ज्ञानशब्दत्वौपचारिक- त्वेन तदभावस्य मुख्यतोऽज्ञानत्वायोगात् । “‘येन वा पश्यति’’ इत्यारभ्य ८ १. Chha, 6. 4. 1. २. Brahmaspittr@ 1.4. ३. ३. Soat. 6. 11. ४. Cha. 7. 1.
पृष्ठम्:वेदान्तसारः (सदानन्दः).djvu/१०१
एतत् पृष्ठम् परिष्कृतम् अस्ति