खण्डः ८,९, १० ] विद्वन्मनोरजनी ९५ सुषुप्तिकाले सकले विलीने तमोभिभूतः सुखरूपमेति’’ ॥ इत्यादिश्रुत्यन्तरग्रहः। तत्रैवानुभवमपि प्रमाणयति-सुखमिति । न चायं सुखपरामर्शो दुःखभावविषयस्तस्य तत्राननुभूतत्वात्तदनुभवसामग्रयाश्व निरू पयितुमशक्यत्वात् । विस्तृतं चैतद्वृद्धैरित्युपरम्यते सङ्ग्रहाधिकारात् । उक्तोपा ध्योस्तदुपहितयोश्च प्राक्सिद्धवत्कृतमभेदं विशदयति-अनयोरिति । प्राज्ञेश्वर योरभेदे श्रुतिं प्रमाणयति--एष सर्वेश्वर इति । आदिपदात् ‘‘अथ य एष सम्प्रसादोऽस्माच्छरीरात्समुत्थाय परं ज्योतिरुपसम्पद्य स्वेन रूपेणाभि निष्पद्यत’’ इत्यादिश्रुत्यन्तरग्रहः ॥ ८ ॥ प्राज्ञेश्वरात्मकस्य चैतन्यस्योपहितत्वेऽनुपहितं चैतन्यमन्यदेवेत्यर्थादुक्तेः किं तदित्यपेक्षायां तत्स्वरूपसंज्ञे दर्शयति-वन° इति । आधारश्चासावनुप हितश्वासावाकाशश्च स तथा तद्वदिति यावत् । यद्यप्याकाशस्य वनाश्रयत्वं जलाशयाश्रयत्वं वा नास्ति तदनारम्भकत्वात्तथाप्यवकाशमन्तरेण तयोः स्थित्यनुपपत्तेस्तदाधारत्ववचनमिति द्रष्टव्यम् । अस्य चैतन्यस्य तुरीयत्वं वक्ष्यमाणविश्वाद्यपेक्षयेति द्रष्टव्यम् । तत्र प्रमाणमाह--शिवमिति । आदिपद्यात् ‘त्रिषु धामसु यद्भोग्यं भोक्ता भोगश्च यद्भवेत् । तेभ्यो विलक्षणः साक्षी चिन्मात्रोऽहं सदाशिवः” ॥ इत्यादिश्रुत्यन्तरग्रहः । अध्यारोपेण व्यासक्तचित्ततया प्रकरणार्थविस्मरणं माभूदिति प्रसङ्गात्तमाह-इदमेवेति ॥ ९ ॥ एवमवस्थाभिमानिसहितमज्ञानं सविभागं सप्रपञ्चं निरूप्येदानीं तत्कार्या ध्यारोपं क्रमेण निरूपयिष्यंस्तदुपयोगित्वेनाज्ञानगतं सामथ्र्यं तावन्निरूपयति अस्याज्ञानस्येति । तत्रावरणशक्तिं सदृष्टान्तमुपपादयति--अावरणेति । यद्यप्यज्ञानस्य मूर्तत्वामूर्तत्वाभ्यामनिर्वाच्यत्वान्न परिचिछन्नस्वं तथापि परि च्छेद्यापेक्षयाल्पत्वमात्रं विवक्षितमिति दृष्टान्तदार्ष्टान्तिकयोरवैषम्यम् । बुद्धि पिधायकतयेत्यत्र बुद्धिशब्देन तदनुरक्तं चैतन्यं लक्ष्यते बुद्धेरज्ञानकार्यंत्वेन तदावृतत्वानुपपत्तेः । निरूपितेऽर्थे हस्तामलकाचार्यसम्मतिमाह--तदुक्तमि त्यादिना । उक्तमावरणशक्तिं तत्कार्यद्वारा बुद्धिमारोहयति-अनयेति । अधि ष्ठानस्वरूपविशेषावरणवशेन विपरीतार्थसम्भावना भवतीत्यत्र दृष्टान्तमाह यथा स्वाज्ञानेति । विक्षेपशक्तिं सदृष्टान्तामाह--विक्षेपेति । अत्राप्याचा र्यान्तरसम्मतिमाह--तदुक्तं-विक्षेपेति । आवरणविक्षेपशक्तिद्वय विशिष्ट १. Koduclg«. 13. २. CA%a. 8. ३. ४. ३. Kojeclg. 18.
पृष्ठम्:वेदान्तसारः (सदानन्दः).djvu/१०९
एतत् पृष्ठम् परिष्कृतम् अस्ति